Chapter 12 of 22
१२
जनक उवाच॥ कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः। अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः॥१२- १॥ प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः। विक्षेपैकाग्रहृदय एवमेवाहमास्थितः॥१२- २॥ समाध्यासादिविक्षिप्तौ व्यवहारः समाधये। एवं विलोक्य नियमं एवमेवाहमास्थितः॥१२- ३॥ हेयोपादेयविरहाद् एवं हर्षविषादयोः। अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः॥१२- ४॥ आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं। विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः॥१२- ५॥ कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा। बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः॥१२- ६॥ अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ। त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः॥१२- ७॥ एवमेव कृतं येन स कृतार्थो भवेदसौ। एवमेव स्वभावो यः स कृतार्थो भवेदसौ॥१२- ८॥
Use the ← → keys to move between chapters.