Chapter 24 of 36
· 24
€ + ® © न कमेफलसंयोगं खभावस्तु परवतेते ॥ १४॥
न कलैत्वं खतः करु इति नापि कर्माणि रथघटप्रासादा- दीनि इहप्सिततमानि छोकख सृजति उत्पादयति प्रभुः आ- त्मा । नापि रथादि कृतवतः तत्फलेन संयोगं न कर्मफल- संयोगम् । यदि किंचिदपि स्तः न करोति न कारयति च देही, कः तर्हि कुवन् कारयश्च प्रवतेते इति, उच्यते-- ख- भावस्तु स्वो भावः खभावः अविद्यालक्षणा प्रकृतिः माया प्रवर्तते ‹ दैवी हि" इ्यादिना वक्ष्यमाणा ॥
परमाथेतस्तु-- नादत्ते कस्यचित्पापं न चैव सुकरतं विसुः। अज्ञानेनाच्रतं ज्ञानं तेन सुद्यन्ति जन्तवः ॥ १५॥
न आदत्ते न च गृहाति अक्तस्यापि कस्यचित् पापम् । न चैव आदत्ते सुकृतं भक्तेः प्रयुक्तं विभुः। किमर्थं तदि भक्तेः
पूजादिरक्षणं यागदानहोमादिकं च युञ्खतं प्रयुज्यते इलयाह- अज्ञानेन आवृतं ज्ञानं बिवेकविज्ञानम्, तेन समुद्यन्ति ‹ करोमि कारयामि भोक्ष्ये भोजयामि ' इत्येवं मोहं गच्छन्ति अविवेकिनः संसारिणो जन्तवः ॥
ज्ञानेन तु तदज्ञानं येषां नारितमात्मनः। तेषामादित्यवज्ज्ञानं पकारायति तत्परम् ॥१६॥
ज्ञानेन तु येन अज्ञानेन आघ्र॒ताः सुद्यन्ति जन्तवः तत् अज्ञानं येषां जन्तूनां विवेकज्ञानेन आत्मविषयेण नाशितम् आत्मनः भवति, तेषां जन्तूनाम् आदित्यवत् यथा आदित्यः समस्तं रूपजातम् अवभासयति तद्त् ज्ञानं ज्ञेय वस्तु सवै प्रकाशयति तत् परं परमाथेतत्त्वम् ॥
यत् पर ज्ञानं प्रकारितम्- लहुदथस्तद्ात्मानस्तनिष्ठास्तत्पराथणाः।
गच्छन्त्यपुनराच्रत्ति ज्ञाननिधूतकल्मषाः ॥ १,७॥
तस्मिन् ब्रह्मणि गता बुद्धिः येषां ते तद्रुद्धयः, तदा- तमान" तदेव परं ब्रह्म आत्मा येषां ते तदात्मानः, तज्िष्ठाः निष्ठा अभिनिवेशः तात्पयै सर्वाणि कमांणि संन्यस्य तस्मिन् ब्रह्मण्येव अवस्थानं येषां ते तश्निष्ठाः, तत्परायणाश्च तदेव
परम् अयनं परा गतिः येषां भवति ते तत्परायणाः केव- खात्मरतय इयथः । येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते गच्छन्ति एवंविधाः अपुनरादृत्तिम् अपुनर्देहसंबन्धं ज्ञाननिधू- तकल्मषाः यथोक्तेन ज्ञानेन निधूतः नाशितः कल्मषः पापादि- संसारकारणदोषः येषा ते ज्ञाननिधूतकस्मषाः यतयः इलय्थः ॥
येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते पण्डिताः कथं तन्वं परयन्ति इत्युच्यते--
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि! छ्युनि चैव श्वपाके च पण्डिताः समदरिनः॥
विद्याविनयसंपन्ने विद्या च विनयश्च विश्चाविनयो, विनयः उपदामः, ताभ्यां विद्याविनयाभ्यां संपन्नः विद्याविनयसंपन्नः विद्धान् विनीतश्च यो बाह्मणः तस्मिन् जाह्यणे गवि हस्तिनि जयुनि चैव पाके च पण्डिताः समदर्दिन- । विद्याविनयसं- पन्ने उत्तमसंस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि, संस्कारहीनायाम् अल्यन्तमेव केवरतामसे हस्त्यादौ च, सत्वादिगुणैः तजे संस्कारैः तथा राजसैः तथा तामसैश्च संस्कारैः अलयन्तमेव अस्पृष्टं समम् एकम् अविक्रियं तत् ब्रह्म द्रष्टुं शीरं येषां ते पण्डिताः समदनः ॥
ननु अभोज्यान्नाः ते दोषवन्तः, ‹ समासमाभ्यां विषम- समे पूजातः ` इति स्प्रतेः । न ते दोषवन्तः । कथम् ए - इहेव तैर्जितः सर्गो येषां साम्ये स्थितं मनः! निर्दाषं हि समं ब्रह्म तस्माह्रह्यणि ते स्थिताः ॥
इह एव जीवद्धिरेव तैः समदर्सिभिः पण्डितै. जितः व- शीकृतः सगेः जन्म, येषां साम्ये सवभूतेषु ब्रह्मणि समभावे स्थितं निश्चरीभृतं मनः अन्त.करणम् । निर्दोषं यद्यपि दोषवत्सु छपाकादिषु मूढैः तदोषे. दोषवत् इव विभाव्यते, तथापि तदोः अस्पृष्टम् इति निर्दोषं दोषवर्जितं हि यस्मात्; नापि स्वगुणभेदभिन्नम्, निर्गुणत्वात् चैतन्यस्य । वक्ष्यति च भगवान् इच्छादीनां कषेत्रधमेत्वम्, ‹ अनादित्वान्निगण- त्वात्: इति च । नापि अन्या विहोषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां सतव ॒प्रमाणानुपपत्तेः । अतः समं जह्य एकं च । तस्मात् ब्रह्मणि एव ते स्थिताः । तस्मात् न दोषगन्धमात्रमंपि तान् स्परश्चति, देहादिसंघातात्मदशनाभि- मानाभावात् तेषाम् । देहादिसधातात्मदश्षनाभिमानवद्विषयं तु तत् सूत्रम् ' समासमाभ्यां विषमसमे पूजातः ` इति, पू- जाविषयत्वेन विशोषणात् । ₹र्यते हि ब्रह्मवित् षडङ्वित् चतुवेदेवित् इति पूजादानादौ गुणविशेषसंबन्धः कारणम् ।
ब्रह्म तु सवेगुणदोषसबन्धवर्जितमियतः ‹ ब्रह्मणि ते सिता. इति युक्तम् । कमेविषयं च ‹ समासमाभ्याम् ` इत्यादि । इद तु सवेकर्समसन्यासविषयं प्रस्तुतम्, ‹ सर्वैकमाणि मनसा ` इलयारभ्य आध्यायपरिसमप्रेः ॥
यस्मात् निर्दोषं समं ब्रह्म आत्मा, तस्मात्- न प्रहृष्येत्परियं प्राप्य नोदिजेत्पाप्य चापियम् । स्थिरबुदिर संमूढो ब्रह्यविद्रह्मणि स्थितः ॥ २०॥
न प्रहृष्येत् प्रहषं न कयत् श्रियम् इष्ट प्राप्य न्ध्वा | न उद्धिजेत् प्राप्य च अग्रियम् अनिष्टं छब्ध्वा । देहमात्नात्म- दृिनां हि भ्रियाश्रियप्राप्ी हषविषादौ कुवीत, न केबरात्म- द्रिनः, तस्य प्रियाप्रियप्राप्यसंभवात् । किंच-- “सवभूतेषु एकः सम. निदोषिः आस्मा ` इति स्थिरा निर्विचिकित्सा बु- द्धिः यस्य सः सिरुद्धिः असंमूढ. संमोहवर्जितश्च स्यात् यथोक्तन्रह्यवित् ब्रह्मणि स्थितः, अकर्मकृत् स्व॑कमैसंन्यासी इत्यथ 9
बाद्यस्पर्होष्वसक्तात्मा चिन्द्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमरहलते ॥ २१ ॥
बाह्यस्परशेषु बाह्याश्च ते स्पा बाह्यस्पशः स्प्रश्यन्ते इति स्पश्चाः रब्दादयो विषयाः तेषु बाद्यस्पर्योषु, असक्तः आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा विषयेषु प्रीतिवजितः सन् विन्दति छमते आत्मनि यत् सुखं तत् विन्दति इव्येतत् । स ब्रह्मयोगयुक्तास्मा ब्रह्मणि योगः समाधिः ब्रह्मयोग: तेन ब्रह्मयोगेन युक्तः समाहितः तस्मिन व्याप्तः आत्मा अन्तःकरणं यस्य॒ स ब्रह्मयोगयुक्तात्मा, सुखम् अक्षयम् अदनुते व्याप्नोति । तस्मात् बाह्यविषयप्रीतेः क्षणिकायाः इन्द्रियाणि निवतेयेत् आत्मनि अक्षयसुखार्था इयथः ॥
इतश्च निवतेयेत्-- ये हि संस्परोजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कोन्तेय न तेषु रमते बुधः ॥२२॥
ये हि यस्मात् संस्पशंजाः विषयेन्द्रियसंस्पर्शेभ्यो जाता मोगा भुक्तयः दुःखयोनय एव ते, अविद्याकृतत्वात् । द शइयन्ते हि आध्यास्मिकादीनि दुःखानि तन्निमित्तान्येव । यथा इहरोकं
तथा पररोकेऽपि इति गम्यते एवदाब्दात् । न संसारे खस्य गन्धमात्रमपि अस्ति इति बुद्धा विषयमृगतृष्णिकाया इन्द्रियाणि निवतयेत् । न केवरं दुःखयोनय एव, आदयन्त- चन्तश्च, आदिः विषयेन्द्रियसंयोगो भोगानाम् अन्तश्च तद्धि- योग॒ एव; अतः आद्यन्तवन्तः अनिलाः, मध्यक्षणभावि- त्वान् इवयथैः । कौन्तेय, न तेषु भोगेषु रमते बुधः विवेकी अवगतपरमाथेतन्त्वः, अल्यन्तमूढानामेव हि विषयेषु रतिः दश्यते, यथा पडप्रभृतीनाम् ॥
अयं च श्रेयोमागेप्रतिपक्षी कष्टतमो दोषः सवीन्थप्रापि- हेतुः दुनिवारश्च इति तत्परिहारे यन्नाधिक्यं कतंव्यम् इया भगवान्- दाक्रोतीहेव यः सोढुं पाक्छरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥
दाक्तोति उत्सहते इहैव जीवन्नेव यः सों प्रसहितुं प्राक् पू शरीरविमोक्षणात् आ मरणात् इत्यथः । मरणसीमाकरणं जीवतोऽवशहयंभावि हि कामक्रोधोद्धबो वेगः, अनन्तनिमित्त- चान्" हि सः इति यावत् मरणं तावत् न विसरम्भणीय इयथः । कामः इन्द्रियगोचरगराप्ते इष्टे विषये श्रूयमाणे स्मये-
४ माणे बा अनुमृते सुखहेतो या गधिः तृष्णा स कामः; कोधञ्च आसनः प्रतिकूठेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मये- माणेषु वा यो द्वेषः सः क्रोधः, तौ कामक्रोधौ उद्धवो यस्य वेगस्य सः कामक्रोधोद्धवः वेगः । रोमाश्चनप्रहृष्टनेचवदनादि- लिङ्गः अन्त.करणप्रक्नोभरूप कामोद्धवो वेगः, गाच्रप्रकम्प- प्रस्वेदसंदष्टोष्ठपुटरक्तनेत्रादिलिङ्गः कोधोद्धवो वेगः, तं काम- क्रोधोद्धवं वेग यः उत्सहते प्रसहते सोदुं प्रसदितुम्, सः युक्तः योगी सुखी च इह रोके नरः ॥
कर्थभूतश्च ब्रह्मणि स्थितः ब्रह्म प्राप्रोति इति आह् भगवान्-
योऽन्तःसुखोऽन्तरारामस्तथान्तज्योतिरेव यः । ब्रह्यनिकौ # ऽधिगच्छति स योगी णं जद्यभूतोऽधिगच्छति ॥
Use the ← → keys to move between chapters.