Chapter 2 of 6
बृहदारण्यकोपनिषत् (texto sánscrito, seis adhyāya) · 2 · 1
प्रथमोऽध्यायः
द्वितीयोऽध्यायः
तृतीयोऽध्यायः
चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
षष्ठोऽध्यायः
द्वितीयोऽध्यायः ।
प्रथमं ब्राह्मणम्
(अजातशत्रुब्राह्मणं वा पर्यंकविद्याब्राह्मणम्)
दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति ॥ बृह. २,१.१ ॥ स होवाच गार्ग्यः य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठाः । अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २,१.२ ॥ स होवाच गार्ग्यः य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । बृहन् पाण्दरवासाः सोमो राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्तेऽहरहर्सुतः प्रसुतो भवति । नास्यान्नं क्षीयते ॥ बृह. २,१.३ ॥ स होवाच गार्ग्यः य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । तेजस्वीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते तेजस्वी ह भवति । तेजस्विनी हास्य प्रजा भवति ॥ २,१.४ ॥ स होवाच गार्ग्यः य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । पूर्णमप्रवर्तीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ बृह. २,१.५ ॥ स होवाच गार्ग्यः य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ २,१.६ ॥ स होवाच गार्ग्यः य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । विषासहिरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते विषासहिर्ह भवति । विषासहिर्हास्य प्रजा भवति ॥ बृह. २,१.७ ॥ स होवाच गार्ग्यः य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । प्रतिरूप इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपम् । अथो प्रतिरुपोऽस्माज्जायते ॥ २,१.८ ॥ स होवाच गार्ग्यः य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । रोचिष्णुरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते रोचिष्णुर्ह भवति । रोचिष्णुर्हास्य प्रजा भवति । अथो यैः संनिगच्छति । सर्वांस्तानतिरोचते ॥ बृह. २,१.९ ॥ स होवाच गार्ग्यः य एवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । असुरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति । नैनं पुरा कालात्प्राणो जहाति ॥ २,१.१० ॥ स होवाच गार्ग्यः य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । द्वितीयोऽनपग इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते द्वितीयवान् ह भवति । नास्माद्गणश्छिद्यते ॥ बृह. २,१.११ ॥ स होवाच गार्ग्यः य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । मृत्युरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति । नैनं पुरा कालान्मृत्युरागच्छति ॥ २,१.१२ ॥ स होवाच गार्ग्यः य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । आत्मन्वीति वा अहमेतमुपास इति । स य एतमेवमुपास्त आत्मन्वी ह भवति । आत्मन्विनी हास्य प्रजा भवति । स ह तूष्णीमास गार्ग्यः ॥ बृह. २,१.१३ ॥ स होवाचाजातशत्रुः एतावन्नू३ इति । एतावद्धीति । नैतावता विदितं भवतीति । स होवाच गार्ग्यः उप त्वायानीति ॥ २,१.१४ ॥ स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति । व्येव त्वा ज्ञपयिष्यामीति । तं पाणावादायोत्तस्थौ । तौ ह पुरुषं सुप्तमाजग्मतुः । तमेतैर्नामभिरामन्त्रयां चक्रे बृहन् पाण्दरवासः सोम राजन्निति । स नोत्तस्थौ । तं पाणिनापेषं बोधयां चकार । स होत्तस्थौ ॥ बृह. २,१.१५ ॥ स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति । तदु ह न मेने गार्ग्यः ॥ २,१.१६ ॥ स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्नानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते । तानि यदा गृह्णाति । अथ हैतत्पुरुषः स्वपिति नाम । तद्गृहीत एव प्राणो भवति । गृहीता वाग् । गृहीतं चक्षुर् । गृहीतं श्रोत्रम् । गृहीतं मनः ॥ बृह. २,१.१७ ॥ स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकाः । तदुतेव महाराजो भवत्युतेव महाब्राह्मणः । उतेवोच्चावचं निगच्छति । स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ २,१.१८ ॥ अथ यदा सुषुप्तो भवति । यदा न कस्य चन वेद । हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीत । एवमेवैष एतच्छेते ॥ २,१.१९ ॥ स यथोर्णनाभिस्तन्तुनोच्चरेद्यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति । प्राणा वै सत्यं तेषामेष सत्यम् ॥ बृह. २,१.२० ॥ (सर्वान्नब्राह्मणं वा शिशुब्राह्मणम्) यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि । अयं वाव शिशुर्योऽयं मध्यमः प्राणः । तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ २,२.१ ॥ तमेताः सप्ताक्षितय उपतिष्ठन्ते । तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः । अथ या अक्षन्नापस्ताभिः पर्जन्यः । या कनीनका तयादित्यः । यत्कृष्णं तेनाग्निर् । यच्छुक्लं तेनेन्द्रः । अधरयैनं वर्तन्या पृथिव्यन्वायत्ता । द्यौरुत्तरया । नास्यान्नं क्षीयते य एवं वेद ॥ बृह. २,२.२ ॥ तदेष श्लोको भवति अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति । इदं तच्छरीर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । तस्मिन् यशो निहितं विश्वरूपमिति । प्राणा वै यशो विश्वरूपम् । प्राणानेतदाह । तस्यासत ऋषयः सप्त तीर इति । प्राणा वा ऋषयः । प्राणाणेतदाह । वागष्टमी ब्रह्मणा संविदानेति । वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ बृह. २,२.३ ॥ इमावेव गोतमभरद्वाजौ । अयमेव गोतमोऽयं भरद्वाजः । इमावेव विश्वामित्रजमदग्नी । अयमेव विश्वामित्रोऽयं जमदग्निः । इमावेव वसिष्ठकश्यपौ । अयमेव वसिष्ठोऽयं कश्यपः । वागेवात्रिः । वाचा ह्यन्नमद्यते । अत्तिर्ह वै नामैतद्यदौत्रिरिति । सर्वस्यात्ता भवति । सर्वमस्यान्नं भवति य एवं वेद ॥ २,२.४ ॥ (मूर्तामूर्तब्राह्मणम्) द्वे वाव ब्रह्मणो रूपे । मूर्तं चैवामूर्तं च । मर्त्यं चामृतं च । स्थितं च यच्च । सच्च त्यं च ॥ बृह. २,३.१ ॥ तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च । एतन्मर्त्यम् । एतत्स्थितम् । एतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति । सतो ह्येष रसः ॥ २,३.२ ॥ अथामूर्तम् । वायुश्चान्तरिक्षश्च । एतदमृतम् । एतद्यत् । एतत्त्यम् । तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः । त्यस्य ह्येष रस । इत्यधिदैवतम् ॥ बृह. २,३.३ ॥ अथाध्यात्मम् । इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाशः । एतन्मर्त्यम् । एतत्स्थितम् । एतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः । सतो ह्येष रसः ॥ २,३.४ ॥ अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः । एतदमृतम् । एतद्यत् । एतत्त्यत् । तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन् पुरुषः । त्यस्य ह्येष रसः ॥ बृह. २,३.५ ॥ तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् । सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद । अथात आदेशो नेति नेति । न ह्येतस्मादिति नेत्यन्यत्परमस्ति । अथ नामधेयं सत्यस्य सत्यमिति । प्राणा वै सत्यम् । तेषामेष सत्यम् ॥ २,३.६ ॥ (मैत्रेयीब्राह्मणम्) मैत्रेयीति होवाच याज्ञवल्क्यः उद्यास्यन् वा अरेऽहमस्मात्स्थानादस्मि । हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ बृह. २,४.१ ॥ सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति । नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् । अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २,४.२ ॥ सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ २,४.३ ॥ स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे । एह्यास्स्व । व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ बृह. २,४.४ ॥ स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ बृह. २,४.५ ॥ ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद । क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद । देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद । भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ बृह. २,४.६ ॥ स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय । दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ २,४.७ ॥ स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ २,४.८ ॥ स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ २,४.९ ॥ स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येव वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि । अस्यैवैतानि निश्वसितानि ॥ बृह. २,४.१० ॥ स यथा सर्वासामपां समुद्र एकायनम् । एवं सर्वेषां स्पर्शानां त्वगेकायनम् । एवं सर्वेषां गन्धानां नासिके एकायनम् । एवं सर्वेषां रसानां जिह्वैकायनम् । एवं सर्वेषां रूपाणां चक्षुरेकायनम् । एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् । एवं सर्वेषां संकल्पानां मन एकायनम् । एवं सर्वासां विद्यानां हृदयमेकायनम् । एवं सर्वेषां कर्मणां हस्तावेकायनम् । एवं सर्वेषामानन्दानामुपस्थ एकायनम् । एवं सर्वेषां विसर्गाणां पायुरेकायनम् । एवं सर्वेषामध्वनां पादावेकायनम् । एवं सर्वेषां वेदानां वागेकायनम् ॥ बृह. २,४.११ ॥ स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् । यतोयतस्त्वाददीत लवणम् । एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति । न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि । इति होवाच याज्ञवल्क्यः ॥ २,४.१२ ॥ सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति । स होवाच न वा अरेऽहं मोहं ब्रवीमि । अलं वा अर इदं विज्ञानाय ॥ २,४.१३ ॥ यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति । यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजानीयात् । विज्ञातारमरे केन विजानीयादिति ॥ बृह. २,४.१४ ॥ (मधुब्राह्मणम्) इयं पृथिवी सर्वेषां भूतानां मधु । अस्यै पृथिव्यै सर्वाणि भूतानि मधु । यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यस्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१ ॥ इमा आपः सर्वेषां भूतानां मधु । आसामपां सर्वाणि भूतानि मधु । यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.२ ॥ अयमग्निः सर्वेषां भूतानां मधु । अस्याग्नेः सर्वाणि भूतानि मधु । यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.३ ॥ अयं वायुः सर्वेषां भूतानां मधु । अस्य वायोः सर्वाणि भूतानि मधु । यश्चायमस्मिन् वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो यमेव स योऽयमात्मा । इदं अमृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.४ ॥ अयमादित्यः सर्वेषां भूतानां मधु । अस्यादित्यस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.५ ॥ इमा दिशः सर्वेषां भूतानां मधु । आसां दिशां सर्वाणि भूतानि मधु । यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.६ ॥ अयं चन्द्रः सर्वेषां भूतानां मध्व् । अस्य चन्द्रस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम् । इदं ब्रह्मेदं सर्वम् ॥ २,५.७ ॥ इयं विद्युत्सर्वेषां भूतानं मधु । अस्यै विद्युतः सर्वाणि भूतानि मधु । यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.८ ॥ अयं स्तनयित्नुः सर्वेषां भुतानां मधु । अस्य स्तनयित्नोः सर्वाणि भूतानि मधु । यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.९ ॥ अयमाकाशः सर्वेषां भूतानां मधु । अस्याकाशस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१० ॥ अयं धर्मः सर्वेषां भूतानां मधु । अस्य धर्मस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.११ ॥ इदं सत्यं सर्वेषां भूतानां मधु । अस्य सत्यस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१२ ॥ इदं मानुषं सर्वेषां भूतानां मधु । अस्य मानुषस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१३ ॥ अयमात्मा सर्वेषां भूतानां मधु । अस्यात्मनः सर्वाणि भूतानि मधु । यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.१४ ॥॥ स वा अयमात्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः । एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ २,५.१५ ॥ इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ २,५.१६ ॥ इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्र वोचदृतायन् त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वामिति ॥ बृह. २,५.१७ ॥ इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भुत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः । नैनेन किं चनानावृतम् । नैनेन किं चनासंवृतम् ॥ २,५.१८ ॥ इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्रणि बहूनि चानन्तानि च । तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् । अयमात्मा ब्रह्म सर्वानुभूः । इत्यनुशासनम् ॥ बृह. २,५.१९ ॥ अथ वंशः पौतिमाष्यो गौपवनात् । गौपवनः पशुतिमाष्यात् । पशुतिमाष्यो गौपवनात् । गौपवनः कौशिकात् । कौशिकः कौण्डिन्यात् । कौण्डिन्यः शाण्डिल्यात् । शाण्डिल्यः कौशिकाच्च गौतमाच्च । गौतमः ॥ बृह. २,६.१ ॥ आग्निवेश्यात् । आग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च । आनभिम्लात आनभिम्लातात् । आनभिम्लात आनभिम्लातात् । आनभिम्लातो गौतमात् । गौतमः सैतवप्राचीनयोग्याभ्याम् । सैतवप्राचीनयोग्यौ पाराशर्यात् । पाराशर्यो भारद्वाजात् । भारद्वाजो भारद्वाजाच्च गौतमाच्च । गौतमो भारद्वाजात् । भारद्वाजः पाराशर्यात् । पाराशर्यो वैजवापायनात् । वैजवापायनः कौशिकायनेः । कौशिकायनिः ॥ बृह. २,६.२ ॥ घृतकौशिकात् । घृतकौशिकः प्राशर्यायणात् । पारशर्यायणः पाराशर्यात् । पाराशर्यो जातूकर्ण्यात् । जातूकर्ण्य आसुरायणाच्च यास्काच्च । आसुरायणस्त्रैवणेः । त्रैवणिरौपजन्धनेः । औपजन्धनिरासुरेः । आसुरिर्भारद्वाजात् । भारद्वाज आत्रेयात् । आत्रेयो माण्टेः । माण्टिर्गौतमात् । गौतमो वात्स्यात् । वात्स्यः शाण्डिल्यात् । शाण्डिल्यः कैशोर्यात्काप्यात् । कैशोर्यः काप्यः कुमारहारितात् । कुमारहारितो गालवात् । गालवो विदर्भीकौण्डिन्यात् । विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् । वत्सनपाद्बाभ्रवः पथः सौभरात् । पन्थाः सौभरोऽयास्यादाङ्गिरसात् । अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात् । आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् । विश्वरूपस्त्वाष्ट्रोऽव्शिभ्याम् । अश्विनौ दधीच आथर्वणात् । दध्यङ्ङाथर्वणोऽथर्वणो दैवात् । अथर्वा दैवो मृत्योः प्राध्वंसनात् । मृत्युः प्राध्वंसनः प्रध्वंसनात् । प्रध्वंसन एकर्षेः । एकर्षिर्विप्रचित्तेः । विप्रचित्तिर्व्यष्टेर् । व्यष्टिः सनारोः । सनारुः सनातनात् । सनातनः सनगात् । सनगः परमेष्ठिनः । परमेष्ठी ब्रह्मणः । ब्रह्म स्वयंभु । ब्रह्मणे नमः ॥ बृह. २,६.३ ॥ इति षष्ठं ब्राह्मणम् ॥ ॥ इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ॥
प्रथमोऽध्यायः (previous chapter)
तृतीयोध्यायः (next chapter)
Use the ← → keys to move between chapters.