Skip to content
The ConsciousLibrary

Chapter 1 of 6

बृहदारण्यकोपनिषत् (texto sánscrito, seis adhyāya) · 1 · 1

प्रथमोऽध्यायः

द्वितीयोऽध्यायः

तृतीयोऽध्यायः

चतुर्थोऽध्यायः

पञ्चमोऽध्यायः

षष्ठोऽध्यायः

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ प्रथमोऽध्यायः ।

प्रथमं ब्राह्मणम् । उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि । ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि । उद्यन् पूर्वार्धो निम्लोचञ्जघनार्धः । यद्विजृम्भते तद्विद्योतते । यद्विधूनुते तत्स्तनयति । यन्मेहति तद्वर्षति । वागेवास्य वाक् ॥ बृह.१,१.१ ॥ (शतपथब्राह्मणम् १०.६.४.१ ) अहर्वा अश्वं पुरस्तान्महिमान्वजायत । तस्य पूर्वे समुद्रे योनिः । रात्रिरेनं पश्चान्महिमान्वजायत । तस्यापरे समुद्रे योनिर् । एतौ वा अश्वं महिमानावभितः सम्बभूवतुः । हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान् । समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ बृह.१,१.२ ॥ नैवेह किं चनाग्र आसीत् । मृत्युनैवेदमावृतमासीदशनायया । अशनाया हि मृत्युः । तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत् । तस्यार्चत आपोऽजायन्त । अर्चते वै मे कमभूदिति । तदेवार्क्यस्यार्कत्वम् । कं ह वा अस्मै भवति य एवमेतदर्क्यस्यार्कत्वं वेद ॥ बृह. १,२.१ ॥ आपो वा अर्कः । तद्यदपां शर आसीत्तत्समहन्यत । सा पृथिव्यभवत् । तस्यामश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ बृह.१,२.२ ॥ स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् । स एष प्राणस्त्रेधाविहितः । तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ । दक्षिणा चोदीची च पार्श्वे । द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः । स एषोऽप्सु प्रतिष्ठितः । यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ बृह. १,२.३ ॥ सोऽकामयत द्वितीयो म आत्मा जायेतेति । स मनसा वाचं मिथुनं समभवदशनाया मृत्युः । तद्यद्रेत आसीत्स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस । तमेतावन्तं कालमबिभर्यावान्त्संवत्सरः । तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् । स भाणकरोत् । सैव वागभवत् ॥ बृह. १,२.४ ॥ स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति । स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्च ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति तददितेरदितित्वम् । सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ बृह. १,२.५ ॥ सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत् । स तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यम् । तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत । तस्य शरीर एव मन आसीत् ॥ बृह. १,२.६ ॥ सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः समभवत् । यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत । तं संवत्सरस्य परस्तादात्मन आलभत । पशून् देवताभ्यः प्रत्यौहत् । तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते । एष वा अश्वमेधो य एष तपति । तस्य संवत्सर आत्मा । अयमग्निरर्कः । तस्येमे लोका आत्मानः । तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेव । अप पुनर्मृत्युं जयति । नैनं मृत्युराप्नोति । मृत्युरस्यात्मा भवति । सर्वमायुरेति । एतासां देवतानामेको भवति ॥ बृह. १,२.७ ॥ (उद्गीथब्राह्मणम्। वैराजब्राह्मणं वा।) द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुराः । त एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ बृह. १,३.१ ॥ ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगायत् । यत्कल्याणं वदति तदात्मने । तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं वदति । स एव स पाप्मा ॥ बृह. १,३.२ ॥ अथ ह प्राणमूचुस्त्वं न उद्गायेति । तथेति तेभ्यः प्राण उदगायत् । यः प्राणे भोगस्तं देवेभ्य आगायत् । यत्कल्याणं जिघ्रति तदात्मने । तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति । स एव स पाप्मा ॥ बृह. १,३.३ ॥ अथ ह चक्षुरूचुस्त्वं न उद्गायेति । तथेति तेभ्यश्चक्षुरुदगायत् । यश्चक्षुषि भोगस्तं देवेभ्य आगायत् । यत्कल्याणं पश्यति तदात्मने । तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति । स एव स पाप्मा ॥ बृह. १,३.४ ॥ अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । तथेति तेभ्यः श्रोत्रमुदगायत् । यः श्रोत्रे भोगस्तं देवेभ्य आगायत् । यत्कल्याणं शृणोति तदात्मने । तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा । यदेवेदमप्रतिरूपं शृणोति । स एव स पाप्मा ॥ बृह. १,३.५ ॥ अथ ह मन ऊचुस्त्वं न उद्गायेति । तथेति तेभ्यो मन उदगायत् । यो मनसि भोगस्तं देवेभ्य आगायत् । यत्कल्याणं संकल्पयति तदात्मने । तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा । यदेवेदमप्रतिरूपं संकल्पयति । स एव स पाप्मा । एवमु खल्वेता देवताः पाप्मभिरुपासृजन् । एवमेनाः पाप्मनाविध्यन् ॥ बृह. १,३.६ ॥ अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति । तथेति तेभ्य एष प्राण उदगायत् । तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविव्यत्सन् । स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः । ततो देवा अभवन्, परासुरा । भवत्यात्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद ॥ बृह. १,३.७ ॥ ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेति । अयमास्येऽन्तरिति । सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ बृह. १,३.८ ॥ सा वा एषा देवता दूर्नाम । दूरं ह्यस्या मृत्युर् । दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ बृह. १,३.९ ॥ सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयां चकार । तदासां पाप्मनो विन्यदधात् । तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ बृह. १,३.१० ॥ सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ बृह. १,३.११ ॥ सा वै वाचमेव प्रथमामत्यवहत् । सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् । सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ बृह. १,३.१२ ॥ अथ प्राणमत्यवहत् । स यदा मृत्युमत्यमुच्यत स वायुरभवत् । सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ बृह. १,३.१३ ॥ अथ चक्षुरत्यवहत् । तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् । सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ बृह. १,३.१४ ॥ अथ श्रोत्रमत्यवहत् । तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवन् । ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ बृह. १,३.१५ ॥ अथ मनोऽत्यवहत् । तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् । सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति । एवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ बृह. १,३.१६ ॥ अथात्मनेऽन्नाद्यमागायत् । यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यते । इह प्रतितिष्ठति ॥ बृह. १,३.१७ ॥ ते देवा अब्रुवन् । एतावद्वा इदं सर्वं यदन्नम् । तदात्मन आगासीः । अनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माभिसंविशतेति । तथेति तं समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्ति । एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद । य उ हैवंविदं स्वेषु प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवति । अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ बृह. १,३.१८ ॥ सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः । प्राणो वा अङ्गानां रसः । प्राणो हि वा अङ्गानां रसः । तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति । एष हि वा अङ्गानां रसः ॥ बृह. १,३.१९ ॥ एष उ एव बृहस्पतिः । वाग्वै बृहती । तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ बृह. १,३.२० ॥ एष उ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म । तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ बृह. १,३.२१ ॥ एष उ एव साम । वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव साम । अश्नुते साम्नः सायुज्यं सलोकताम् । य एवमेतत्साम वेद ॥ बृह. १,३.२२ ॥ एष उ वा उद्गीथः । प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धम् । वागेव गीथा । उच्च गीथा चेति । स उद्गीथः ॥ बृह. १,३.२३ ॥ तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच । अयं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति । वाचा च ह्येव स प्राणेन चोदगायदिति ॥ बृह. १,३.२४ ॥ तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत । तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् । तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव । अथो यस्य स्वं भवति । भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ बृह. १,३.२५ ॥ तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ बृह. १,३.२६ ॥ तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य वै वागेव प्रतिष्ठा । वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते । अन्न इत्यु हैक आहुः ॥ बृह. १,३.२७ ॥ अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम प्रस्तौति । स यत्र प्रस्तुयात्तदेतानि जपेत् । असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति । स यदाहासतो मा सद्गमयेति । मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति । मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह । मृत्योर्मामृतं गमयेति । नात्र तिरोहितमिवास्ति । अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् । तस्मादु तेषु वरं वृणीत । यं कामं कामयेत्तम् । स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति । तद्धैतल्लोकजिदेव । न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ बृह. १,३.२८ ॥ (पुरुषविधब्राह्मणम् /आत्मब्राह्मणम् /सृष्टिब्राह्मणम् ) आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् । सोऽहमस्मीत्यग्रे व्याहरत् । ततोऽहंनामाभवत् । तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति । स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन औषत्तस्मात्पुरुषः । ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ बृह. १,४.१ ॥ सोऽबिभेत्तस्मादेकाकी बिभेति । स हायमीक्षां चक्रे, यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत् । द्वितीयाद्वै भयं भवति ॥ बृह. १,४.२ ॥ स वै नैव रेमे । तस्मादेकाकी न रमते । स द्वितीयमैच्छत् । स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ । स इममेवात्मानं द्वेधापातयत् । ततः पतिश्च पत्नी चाभवताम् । तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः । तस्मादयमाकाशः स्त्रिया पूर्यत एव । तां समभवत् । ततो मनुष्या अजायन्त ॥ बृह. १,४.३ ॥ सो हेयमीक्षां चक्रे कथं नु मात्मन एव जनयित्वा सम्भवति । हन्त तिरोऽसानीति । सा गौरभवद्वृषभ इतरः । तां समेवाभवत् । ततो गावोऽजायन्त । वडवेतराभवदश्ववृष इतरः । गर्दभीतरा गर्दभ इतरः । तां समेवाभवत् । तत एकशफमजायत । अजेतराभवद्बस्त इतरः । अविरितरा मेष इतरः । तां समेवाभवत् । ततोऽजावयो ऽजायन्त । एवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ बृह. १,४.४ ॥ सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति । ततः सृष्टिरभवत् । सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ बृह. १,४.५ ॥ अथेत्यभ्यमन्थत् । स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतः । अलोमका हि योनिरन्तरतः । तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिः । एष उ ह्येव सर्वे देवाः । अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत । तदु सोम । एतावद्वा इदं सर्वमन्नं चैवान्नादश्च । सोम एवान्नमग्निरन्नादः । सैषा ब्रह्मणोऽतिसृष्टिः । यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् । अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ बृह. १,४.६ ॥ तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियतासौ नामायमिदंरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियत असौ नामायमिदंरूप इति । स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये । तं न पश्यन्ति । अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति । वदन् वाक्पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनः । तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेद । अकृत्स्नो ह्येषोऽत एकैकेन भवति । आत्मेत्येवोपासीत । अत्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा । अनेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ बृह. १,४.७ ॥ तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् । आत्मानमेव प्रियमुपासीत । स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ बृह. १,४.८ ॥ तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते । किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ॥ बृह. १,४.९ ॥ ब्रह्म वा इदमग्र आसीत् । तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत् । तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् । तथर्षीनाम् । तथा मनुष्याणाम् । तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति । तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति । अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान् भुनक्ति । एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु । तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ बृह. १,४.१० ॥ ब्रह्म वा इदमग्र आसीदेकमेव । तदेकं सन्न व्यभवत् । तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति । तस्माद्ब्राह्मणः क्षत्रियं अधस्तादुपास्ते राजसूये । क्षत्र एव तद्यशो दधाति । सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एनं हिनस्ति स्वां स योनिमृच्छति । स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ बृह. १,४.११ ॥ स नैव व्यभवत् । स विशमसृजत । यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ बृह. १,४.१२ ॥ स नैव व्यभवत् । स शौद्रं वर्णमसृजत पूषणम् । इयं वै पूषा । इयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ बृह. १,४.१३ ॥ स नैव व्यभवत् । तच्छ्रेयो रूपमत्यसृजत धर्मम् । तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः । तस्माद्धर्मात्परं नास्ति । अथो अबलीयान् बलीयांसमाशंसते धर्मेण । यथा राज्ञैवम् । यो वै स धर्मः सत्यं वै तत् । तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति । धर्मं वा वदन्तं सत्यं वदतीति । एतद्ध्येवैतदुभयं भवति ॥ बृह. १,४.१४ ॥ तदेतद्ब्रह्म क्षत्रं विट्शूद्रः । तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः । तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु । एताभ्यां हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव । आत्मानमेव लोकमुपासीत । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ बृह. १,४.१५ ॥ अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । स यज्जुहोति यद्यजते तेन देवानां लोकः । अथ यदनुब्रूते तेन ऋषीणाम् । अथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणाम् । अथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् । अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् । यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः । यथा ह वै स्वाय लोकायारिष्टिमिच्छेत् । एवं हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा एतद्विदितं मीमांसितम् ॥ बृह. १,४.१६ ॥ आत्मैवेदमग्र आसीदेक एव । सोऽकामयत जाया मे स्यादथ प्रजायेय । अथ वित्तं मे स्यादथ कर्म कुर्वीयेति । एतावान् वै कामः । नेच्छंश्चनातो भूयो विन्देत् । तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते । तस्यो कृत्स्नता । मन एवास्यात्मा । वाग्जाया । प्राणः प्रजा । चक्षुर्मानुषं वित्तम् । चक्षुषा हि तद्विन्दते । श्रोत्रं दैवम् । श्रोत्रेण हि तच्छृणोति । आत्मैवास्य कर्म । आत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः । पाङ्क्तः पशुः । पाङ्क्तः पुरुषः । पाङ्क्तमिदं सर्वं यदिदं किञ्च । तदिदं सर्वमाप्नोति य एवं वेद ॥ बृह. १,४.१७ ॥ (सप्तान्नब्राह्मणं वा संवर्गविद्याब्राह्मणम्) यत्सप्तान्नानि मेधया तपसाजनयत्पिता । एकमस्य साधारणं द्वे देवानभाजयत् । त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा । यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन । स देवानपिगच्छति स ऊऋजमुपजीवति । इति श्लोकाः ॥ बृह. १,५.१ ॥ यत्सप्तान्नानि मेधया तपसाजनयत्पितेति । मेधया हि तपसाजनयत्पितैकमस्य साधारणमिति । इदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते । मिश्रं ह्येतत् । द्वे देवानभाजयदिति । हुतं च प्रहुतं च । तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति । अथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति । तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति । तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति । अथ वत्सं जातमाहुस्तृणादिति । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति । न तथा विद्यात् । यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् । सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदेति । पुरुषो वा अक्षितिः । स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति । पुरुषो वा अक्षितिः । स हीदमन्नं धियाधिया जनयते कर्मभिः । यद्धैतन्न कुर्यात्क्षीयेत ह । सोऽन्नमत्ति प्रतीकेनेति । मुखं प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ बृह. १,५.२ ॥ त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुत । अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वागेव सा । एषा ह्यन्तं आयत्तैषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एव । एतन्मयो वा अयमात्मा । वाङ्मयो मनोमयः प्राणमयः ॥ बृह. १,५.३ ॥ त्रयो लोका एत एव । वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ बृह. १,५.४ ॥ त्रयो वेदा एत एव । वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ बृह. १,५.५ ॥ देवा पितरो मनुष्या एत एव । वागेव देवा मनः पितरः, प्राणो मानुष्याः ॥ १,५.६ ॥ पिता माता प्रजैत एव । मन एव पिता वाङ्माता प्राणः प्रजा ॥ १,५.७ ॥ विज्ञातं विजिज्ञास्यमविज्ञातमेत एव । यत्किञ्च विज्ञातं वाचस्तद्रूपम् । वाग्घि विज्ञाता । वागेनं तद्भूत्वावति ॥ बृह. १,५.८ ॥ यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् । मनो हि विजिज्ञास्यम् । मन एनं तद्भूत्वावति ॥ १,५.९ ॥ यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् । प्राणो ह्यविज्ञातः । प्राण एनं तद्भूत्वावति ॥ १,५.१० ॥ तस्यै वाचः पृथिवी शरीरम् । ज्योतीरूपमयमग्निः । तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ बृह. १,५.११ ॥ अथैतस्य मनसो द्यौः शरीरम् । ज्योतीरूपमसावादित्यः । तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यः । तौ मिथुनं समैताम् । ततः प्राणोऽजायत । स इन्द्रः । स एषोऽसपत्नः । द्वितीयो वै सपत्नः । नास्य सपत्नो भवति य एवं वेद ॥ बृह. १,५.१२ ॥ अथैतस्य प्राणस्यापः शरीरम् । ज्योतीरूपमसौ चन्द्रः । तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः । त एते सर्व एव समाः सर्वेऽनन्ताः । स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयति । अथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ बृह. १,५.१३ ॥ स एष संवत्सरः प्रजापतिष्षोडशकलः । तस्य रात्रय एव पञ्चदश कला । ध्रुवैवास्य षोडशी कला । स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते । सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १,५.१४ ॥ यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषः । तस्य वित्तमेव पञ्चदश कलाः । आत्मैवास्य षोडशी कला । स वित्तेनैवा च पूर्यतेऽप च क्षीयते । तदेतन्नभ्यं यदयमात्मा । प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ बृह. १,५.१५ ॥ अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति । सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । कर्मणा पितृलोकः । विद्यया देवलोकः । देवलोको वै लोकानां श्रेष्ठः । तस्माद्विद्यां प्रशंसन्ति ॥ बृह. १,५.१६ ॥ अथातः सम्प्रत्तिः । यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति । यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता । ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता । एतावद्वा इदं सर्वम् । एतन्मा सर्वं सन्नयमितो भुनजदिति । तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः । तस्मादेनमनुशासति । स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति । स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम । स पुत्रेणैवास्मिल्लोके प्रतितिष्ठति । अथैनमेते देवाः प्राणा अमृता आविशन्ति ॥ बृह. १,५.१७ ॥ पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १,५.१८ ॥ दिवश्चैनमादित्याच्च दैवं मन आविशति । तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १,५.१९ ॥ अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः प्राणो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति । स एष एवंवित्सर्वेषां भूतानामात्मा भवति । यथैषा देवतैवं सः । यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति । पुण्यमेवामुं गच्छति । न ह वै देवान् पापं गच्छति ॥ बृह. १,५.२० ॥ अथातो व्रतमीमांसा । प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टान्यन्योऽन्येनास्पर्धन्त । वदिष्याम्येवाहमिति वाग्दध्रे । द्रक्ष्याम्यहमिति चक्षुः । श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि कर्माणि यथाकर्मम् । तानि मृत्युः श्रमो भूत्वोपयेमे । तान्याप्नोत् । तान्याप्त्वा मृत्युरवारुन्ध । तस्माच्छ्राम्यत्येव वाक् । श्राम्यति चक्षुः । श्राम्यति श्रोत्रम् । अथेममेव नाप्नोत्योऽयं मध्यमः प्राणः । तानि ज्ञातुं दध्रिरे । अयं वै नः श्रेष्ठो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति । हन्तास्यैव सर्वे रूपं भवामेति । त एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद । य उ हैवंविदा स्पर्धतेऽनुशुष्यति । अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ बृह. १,५.२१ ॥ अथाधिदेवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे । तप्स्याम्यहमित्यादित्यः । भास्याम्यहमिति चन्द्रमाः । एवमन्या देवता यथादेवतम् । स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः । म्लोचन्ति ह्यन्या देवता न वायुः । सैषानस्तमिता देवता यद्वायुः ॥ बृह. १,५.२२ ॥ अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति । प्राणाद्वा एष उदेति प्राणेऽस्तमेति । तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च । नेन्मा पाप्मा मृत्युराप्नवदिति । यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ बृह. १,५.२३ ॥ (त्र्यन्नब्राह्मणं वा अविद्याविषयसंसारतत्त्वप्रदर्शकं ब्राह्मणं वा उपसंहारब्राह्मणम्) त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नां वागित्येतदेषामुक्थम् । अतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषां साम । एतद्धि सर्वैर्नामभिः समम् । एतदेषां ब्रह्म । एतद्धि सर्वाणि नामानि बिभर्ति ॥ १,६.१ ॥ अथ रूपाणां चक्षुरित्येतदेषामुक्थम् । अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । एतदेषां साम । एतद्धि सर्वै रूपैः समम् । एतदेषां ब्रह्म । एतद्धि सर्वाणि रूपाणि बिभर्ति ॥ बृह. १,६.२ ॥ अथ कर्मणामात्मेत्येतदेषामुक्थम् । अतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति । एतदेषां साम । एतद्धि सर्वैः कर्मभिः समम् । एतदेषां ब्रह्म । एतद्धि सर्वाणि कर्माणि बिभर्ति । तदेतत्त्रयं सदेकमयमात्मा । आत्मो एकः सन्नेतत्त्रयम् । तदेतदमृतं सत्येन छन्नम् । प्राणो वा अमृतम् । नामरूपे सत्यम् । ताभ्यामयं प्राणश्छन्नः ॥ १,६.३ ॥ इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥

द्वितीयोऽध्यायः (next)

टिप्पणी

१.६.१ त्रयं वा इदं नाम रूप कर्म इति

उक्थ/उक्थ्य उपरि टिप्पणी

Use the ← → keys to move between chapters.

बृहदारण्यकोपनिषत् (texto sánscrito, seis adhyāya) · 1 · 1 · Bṛhadāraṇyaka Upaniṣad (The Great Forest Upaniṣad) — Yajnavalkya · The Conscious Library