Skip to content
The ConsciousLibrary

Chapter 95 of 111

उत्तरकाण्डम्/सर्गः ९५

रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।। ७.९५.१ ।। तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् । दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ।। ७.९५.२ ।। मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।। ७.९५.३ ।।परिषदो मध्ये रामो वचनमब्रवीत् । यदि शुद्धसमाचारा यदि वा वीतकल्मषा । करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ।। ७.९५.४ ।। छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । प्रत्ययं दातुकामायास्ततः शंसत मे लघु ।। ७.९५.५ ।। श्वः प्रभाते तु शपथं मैथिली जनकात्मजा । करोतु परिषन्मध्ये शोधनार्थं ममैव च ।। ७.९५.६ ।। श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् । दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ।। ७.९५.७ ।। ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ।। ७.९५.८ ।। तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् । विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ।। ७.९५.९ ।। एवं भवतु भद्रं वो यथा वदति राघवः । तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ।। ७.९५.१० ।। तथोक्ता मुनिना सर्वे राजदूता महौजसम् । प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ।। ७.९५.११ ।। ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ।। ७.९५.१२ ।। भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ।। ७.९५.१३ ।। तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ।। ७.९५.१४ ।। राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् । उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ।। ७.९५.१५ ।। एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः । विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ।। ७.९५.१६ ।। इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै । विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ।। ७.९५.१७ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चनवतितमः सर्ग ।। ९५ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः ९५ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library