Skip to content
The ConsciousLibrary

Chapter 94 of 111

उत्तरकाण्डम्/सर्गः ९४

तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ । यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ।। ७.९४.१ ।। तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् । अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ।। ७.९४.२ ।। प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् । बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ।। ७.९४.३ ।। अथ कर्मान्तरे राजा समाहूय महामुनीन् । पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ।। ७.९४.४ ।। पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः । स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ।। ७.९४.५ ।। लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः । पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ।। ७.९४.६ ।। कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् । क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ।। ७.९४.७ ।। भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः । हेतूपचारकुशलान् वचने चापि हैतुकान् ।। ७.९४.८ ।। छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् । चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ।। ७.९४.९ ।। शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् । एतान्सर्वान्समानीय गातारौ समवेशयत् ।। ७.९४.१० ।। दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः । पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ।। ७.९४.११ ।। ऊचुः परस्परं चेदं सर्व एव समन्ततः । उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ।। ७.९४.१२ ।। जटिलौ यदि न स्यातां न वल्कलधरौ यदि । विशेषं नाधिगच्छामो गायतो राघवस्य च ।। ७.९४.१३ ।। तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् । गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ।। ७.९४.१४ ।। ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् । न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ।। ७.९४.१५ ।। प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् । ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ।। ७.९४.१६ ।। ततो ऽपराह्णसमये राघवः समभाषत । श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ।। ७.९४.१७ ।। अष्टादशसहस्राणि सुवर्णस्य महात्मनोः । प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् । ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ।। ७.९४.१८ ।। दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ । ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ।। ७.९४.१९ ।। वन्येन फलमूलेन निरतौ वनवासिनौ । सुवर्णेन हिरण्येन किं करिष्यावहे वने ।। ७.९४.२० ।। तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः । श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ।। ७.९४.२१ ।। तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः । पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ।। ७.९४.२२ ।। किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः । कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ।। ७.९४.२३ ।। पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।। ७.९४.२४ ।। वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् । येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ।। ७.९४.२५ ।। सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् । उपाख्यानशतं चैव भार्गवेण तपस्विना ।। ७.९४.२६ ।। आदिप्रभृति वै राजन्पञ्चसर्गशतानि च । काण्डानि षट् कृतानीह सोत्तराणि महात्मना । कृतानि गुरुणास्माकमृषिणा चरितं तव ।। ७.९४.२७ ।। प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ।। ७.९४.२८ ।। सोत्तराणि महात्मना । यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ । कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ।। ७.९४.२९ ।। बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् । प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ।। ७.९४.३० ।। रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः । श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ।। ७.९४.३१ ।। शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् । तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ।। ७.९४.३२ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्नवतितमः सर्गः ।। ९४ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः ९४ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library