Skip to content
The ConsciousLibrary

Chapter 90 of 111

उत्तरकाण्डम्/सर्गः ९०

तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः ।। ७.९०.१ ।। इला सा सोमपुत्रस्य संवत्सरमथोषिता । अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ।। ७.९०.२ ।। तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः । रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ।। ७.९०.३ ।। पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् । संवर्तं परमोदारमाजुहाव महायशाः ।। ७.९०.४ ।। च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् । प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ।। ७.९०.५ ।। एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः । उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ।। ७.९०.६ ।। अयं राजा महाबाहुः कर्दमस्य इलः सुतः । जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ।। ७.९०.७ ।। तेषां संवदतामेव तमाश्रममुपागमत् । कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ।। ७.९०.८ ।। पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च । ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ।। ७.९०.९ ।। ते सर्वे हृष्टमनसः परस्परसमागमे । हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ।। ७.९०.१० ।। कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् । द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ।। ७.९०.११ ।। नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् । नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः । तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ।। ७.९०.१२ ।। कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः । रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।। ७.९०.१३ ।। संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः । मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।। ७.९०.१४ ।। ततो यज्ञो महानासीद्बुधाश्रमसमीपतः । रुद्रश्च परमं तोषमाजगाम महायशाः ।। ७.९०.१५ ।। अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा । उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ।। ७.९०.१६ ।। प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः । अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।। ७.९०.१७ ।। तथा वदति देवेशे द्विजास्ते सुसमाहिताः । प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ।। ७.९०.१८ ।। ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः । इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।। ७.९०.१९ ।। निवृत्ते हयमेधे च गतश्चादर्शनं हरः । यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ।। ७.९०.२० ।। राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् । निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।। ७.९०.२१ ।। शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः । प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।। ७.९०.२२ ।। स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् । ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।। ७.९०.२३ ।। ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ । स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ।। ७.९०.२४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवतितमः सर्गः ।। ९० ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः ९० · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library