Chapter 9 of 111
उत्तरकाण्डम्/सर्गः ९
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः । रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ।। ७.९.१ ।। नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ।। ७.९.२ ।। राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् । तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ।। ७.९.३ ।। गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ।। ७.९.४ ।। रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः । इत्येवं चिन्तयामास राक्षसानां महामतिः ।। ७.९.५ ।। किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् । अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ।। ७.९.६ ।। पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते । प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ।। ७.९.७ ।। त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.९.८ ।। न ज्ञायते च कः कन्यां वरयेदिति कन्यके ।। ७.९.९ ।।त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ।। ७.९.१० ।। सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ।। ७.९.११ ।। ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः । तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ।। ७.९.१२ ।। सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ।। ७.९.१३ ।। एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ।। ७.९.१४ ।। अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ।। ७.९.१५ ।। स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ।। ७.९.१६ ।। भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ।। ७.९.१७ ।। एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ।। ७.९.१८ ।। किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ।। ७.९.१९ ।। स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ।। ७.९.२० ।। सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ।। ७.९.२१ ।। शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि । दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ।। ७.९.२२ ।। प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः । सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ।। ७.९.२३ ।। भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ।। ७.९.२४ ।। कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ।। ७.९.२५ ।। पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः स धर्मात्मा च भविष्यति ।। ७.९.२६ ।। एवमुक्ता तु सा कन्या राम कालेन केनचित् । जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ।। ७.९.२७ ।। दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ।। ७.९.२८ ।। तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः । क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ।। ७.९.२९ ।। ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः । प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ।। ७.९.३० ।। चकम्पे जगती चैव ववुर्वाताः सुदारुणाः । अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ।। ७.९.३१ ।। अथ नामाकरोत्तस्य पितामहसमः पिता । दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ।। ७.९.३२ ।। तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।। ७.९.३३ ।। ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ।। ७.९.३४ ।। तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ।। ७.९.३५ ।। नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा । वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ।। ७.९.३६ ।। तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ।। ७.९.३७ ।। कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् । त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ।। ७.९.३८ ।। विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः । स्वाध्यायनियताहार उवास विजितेन्द्रियः ।। ७.९.३९ ।। अथ वैश्रवणो देवस्तत्र कालेन केनचित् । आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ।। ७.९.४० ।। तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ।। ७.९.४१ ।। पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ।। ७.९.४२ ।। दशग्रीव तथा यत्नं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ।। ७.९.४३ ।। मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ।। ७.९.४४ ।। सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा । भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ।। ७.९.४५ ।। ततस्तेनैव कोपेन दशग्रीवः सहानुजः । चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ।। ७.९.४६ ।। प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च । आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ।। ७.९.४७ ।। स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ।। ७.९.४८ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवमः सर्गः ।। ९ ।।
Use the ← → keys to move between chapters.