Skip to content
The ConsciousLibrary

Chapter 86 of 111

उत्तरकाण्डम्/सर्गः ८६

तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ।। ७.८६.१ ।। ततो हते महावीर्ये वृत्रे देवभयङ्करे । ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ।। ७.८६.२ ।। सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः । कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ।। ७.८६.३ ।। अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् । भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ।। ७.८६.४ ।। निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा । सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ।। ७.८६.५ ।। क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः । यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ।। ७.८६.६ ।। ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ।। ७.८६.७ ।। ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया । तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ।। ७.८६.८ ।। ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः । ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ।। ७.८६.९ ।। ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः । अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ।। ७.८६.१० ।। ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः । चतुर्धा विभजात्मानमात्मनैव दुरासदे ।। ७.८६.११ ।। देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् । सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ।। ७.८६.१२ ।। एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै । चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ।। ७.८६.१३ ।। भूम्यामहं सर्वकालमेकेनांशेन सर्वदा । वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ।। ७.८६.१४ ।। यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु । त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ।। ७.८६.१५ ।। हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् । तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ।। ७.८६.१६ ।। प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे । तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ।। ७.८६.१७ ।। ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे । विज्वरः स च पूतात्मा वासवः समपद्यत ।। ७.८६.१८ ।। प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते । यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ।। ७.८६.१९ ।। ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन । यजस्व सुमहाभाग हयमेधेन पार्थिव ।। ७.८६.२० ।। इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा । परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ।। ७.८६.२१ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडशीतितमः सर्गः ।। ८६ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः ८६ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library