Skip to content
The ConsciousLibrary

Chapter 83 of 111

उत्तरकाण्डम्/सर्गः ८३

तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः । द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ।। ७.८३.१ ।। दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ । परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ।। ७.८३.२ ।। कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् । धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ।। ७.८३.३ ।। अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम । धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ।। ७.८३.४ ।। युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् । सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ।। ७.८३.५ ।। इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः । सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ।। ७.८३.६ ।। सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् । प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ।। ७.८३.७ ।। अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह । हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ।। ७.८३.८ ।। श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः । भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.८३.९ ।। त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा । प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ।। ७.८३.१० ।। महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः । निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ।। ७.८३.११ ।। पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल । पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ।। ७.८३.१२ ।। स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप । पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ।। ७.८३.१३ ।। पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः । सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ।। ७.८३.१४ ।। स त्वं पुरुषशार्दूल गुणैरतुलविक्रम । पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ।। ७.८३.१५ ।। भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा । प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ।। ७.८३.१६ ।। उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् । प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ।। ७.८३.१७ ।। इदं वचनमक्लीबं त्वया धर्मसमाहितम् । व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ।। ७.८३.१८ ।। एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् । निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ।। ७.८३.१९ ।। लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज । तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ।। ७.८३.२० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्यशीतितमः सर्गः ।। ८३ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः ८३ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library