Skip to content
The ConsciousLibrary

Chapter 80 of 111

उत्तरकाण्डम्/सर्गः ८०

एतदाख्याय रामाय महर्षिः कुम्भसम्भवः । अस्यामेवापरं वाक्यं कथायामुपचक्रमे ।। ७.८०.१ ।। ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् । अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ।। ७.८०.२ ।। अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् । रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ।। ७.८०.३ ।। तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि । विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ।। ७.८०.४ ।। स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः । अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ।। ७.८०.५ ।। कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे । पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ।। ७.८०.६ ।। तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः । भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ।। ७.८०.७ ।। भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः । अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ।। ७.८०.८ ।। मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् । गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः । व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ।। ७.८०.९ ।। यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा । वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।। ७.८०.१० ।। अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् । क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ।। ७.८०.११ ।। दास्यते चानवद्याङ्ग तव मा याचितः पिता ।। ७.८०.१२ ।। एवं ब्रुवाणामरजां दण्डः कामवशं गतः । प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ।। ७.८०.१३ ।। प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि । त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ।। ७.८०.१४ ।। त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः । भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ।। ७.८०.१५ ।। एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली । विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ।। ७.८०.१६ ।। एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् । नगरं प्रययावाशु मधुमन्तमनुत्तमम् ।। ७.८०.१७ ।। अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः । प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ।। ७.८०.१८ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽशीतितमः सर्गः ।। ८० ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः ८० · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library