Skip to content
The ConsciousLibrary

Chapter 8 of 111

उत्तरकाण्डम्/सर्गः ८

हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः । माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ।। ७.८.१ ।। संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः । पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ।। ७.८.२ ।। नारायण न जानीषे क्षात्रधर्मं पुरातनम् । अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ।। ७.८.३ ।। पराङ्मुखवधं पापं यः करोत्यसुरेतरः । स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ।। ७.८.४ ।। युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । ४ अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ।। ७.८.५ ।। माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् । उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। ७.८.६ ।। युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् । राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ।। ७.८.७ ।। प्राणैरपि प्रियं कार्यं देवानां हि सदा मया । सो ऽहं वो निहनिष्यामि रसातलगतानपि ।। ७.८.८ ।। देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् । शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। ७.८.९ ।। माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना । हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ।। ७.८.१० ।। ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः । माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। ७.८.११ ।। स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता । काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। ७.८.१२ ।। सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। ७.८.१३ ।। तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः । माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ।। ७.८.१४ ।। ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ।। ७.८.१५ ।। तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ।। ७.८.१६ ।। ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः । आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ।। ७.८.१७ ।। वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् । व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ।। ७.८.१८ ।। द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ।। ७.८.१९ ।। पक्षवातबलोद्धूतो माल्यवानपि राक्षसः । स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ।। ७.८.२० ।। एवं ते राक्षसा तेन हरिणा कमलेक्षण । बहुशः संयुगे भग्ना हतप्रवरनायकाः ।। ७.८.२१ ।। अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः । त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। ७.८.२२ ।। सुमालिनं समासाद्य राक्षसं रघुसत्तम । स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ।। ७.८.२३ ।। ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः । सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।। सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ।। ७.८.२४ ।। न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् । ऋते नारायणं देवं शङ्खचक्रगदाधरम् ।। ७.८.२५ ।। भवान्नारायणो देवश्चतुर्बाहुः सनातनः । राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ।। ७.८.२६ ।। नष्टधर्मव्यवस्थाता काले काले प्रजाकरः । उत्पद्यते दस्युवधे शरणागतवत्सलः ।। ७.८.२७ ।। एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् । भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ।। ७.८.२८ ।। चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा । पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ।। ७.८.२९ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टमः सर्गः ।। ८ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः ८ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library