Chapter 55 of 111
उत्तरकाण्डम्/सर्गः ५५
एष ते नृगशापस्य विस्तरो ऽभिहितो मया । यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ।। ७.५५.१ ।। एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् । तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ।। ७.५५.२ ।। लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः । कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ।। ७.५५.३ ।। आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् । पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ।। ७.५५.४ ।। स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् । निवेशयामास तदा अभ्याशे गौतमस्य तु ।। ७.५५.५ ।। पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् । निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ।। ७.५५.६ ।। तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् । यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ।। ७.५५.७ ।। ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् । वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ।। ७.५५.८ ।। अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः । अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ।। ७.५५.९ ।। तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् । वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ।। ७.५५.१० ।। अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् । वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ।। ७.५५.११ ।। निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः । अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः । पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ।। ७.५५.१२ ।। इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः । सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ।। ७.५५.१३ ।। तदन्तरमथापश्यद्गौतमेनाभिपूरितम् । कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ।। ७.५५.१४ ।। स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् । तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ।। ७.५५.१५ ।। ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः । अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ।। ७.५५.१६ ।। यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव । चेतनेन विनाभूतो देहस्तव भविष्यति ।। ७.५५.१७ ।। ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् । ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ।। ७.५५.१८ ।। अजानतः शयानस्य क्रोधेन कलुषीकृतः । मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ।। ७.५५.१९ ।। तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः । देहः सुरुचिरप्रख्यो भविष्यति न संशयः ।। ७.५५.२० ।। इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ । सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ।। ७.५५.२१ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चपञ्चाशः सर्गः ।। ५५ ।।
Use the ← → keys to move between chapters.