Skip to content
The ConsciousLibrary

Chapter 52 of 111

उत्तरकाण्डम्/सर्गः ५२

तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ।। ७.५२.१ ।। ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः । अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ।। ७.५२.२ ।। सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः ।। ७.५२.३ ।। तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् । रामस्य परमोदारं पुरस्तान्समदृश्यत ।। ७.५२.४ ।। राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् । अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ।। ७.५२.५ ।। स दृष्ट्वा राघवं दीनमासीनं परमासने । नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ।। ७.५२.६ ।। जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः । उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ।। ७.५२.७ ।। आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् । गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ।। ७.५२.८ ।। तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् । पुनरप्यागतो वीर पादमूलमुपासितुम् ।। ७.५२.९ ।। मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी । त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।। ७.५२.१० ।। सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। ७.५२.११ ।। तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च । नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ।। ७.५२.१२ ।। शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि । लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।। ७.५२.१३ ।। नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः । अपवादः स किल ते पुनरेष्यति राघव ।। ७.५२.१४ ।। यदर्थं मैथिली त्यक्ता अपवादभयान्नृप । सो ऽपवादः पुरे राजन्भविष्यति न संशयः ।। ७.५२.१५ ।। स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः । त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ।। ७.५२.१६ ।। एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना । उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ।। ७.५२.१७ ।। एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण । परितोषश्च मे वीर मम कार्यानुशासने ।। ७.५२.१८ ।। निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः । भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ।। ७.५२.१९ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विपञ्चाशः सर्गः ।। ५२ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः ५२ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library