Chapter 5 of 111
उत्तरकाण्डम्/सर्गः ५
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् । ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ।। ७.५.१ ।। तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी । तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ।। ७.५.२ ।। वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् । आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ।। ७.५.३ ।। स तया सह संयुक्तो रराज रजनीचरः । अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ।। ७.५.४ ।। देववत्यां सुकेशस्तु जनयामास राघव ।। ७.५.५ ।। त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् । माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् । त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।। ७.५.६ ।। त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः । त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ।। ७.५.७ ।। त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः । विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ।। ७.५.८ ।। वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् । तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ।। ७.५.९ ।। प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम । विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ।। ७.५.१० ।। सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः । सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ।। ७.५.११ ।। ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः । सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ।। ७.५.१२ ।। ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् । ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ।। ७.५.१३ ।। तपसाराधितो देव यदि नो दिशसे वरम् । अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।। ७.५.१४ ।। प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ।। ७.५.१५ ।। एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः । स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ।। ७.५.१६ ।। वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा । सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ।। ७.५.१७ ।। तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः । त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ।। ७.५.१८ ।। अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् । ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ।। ७.५.१९ ।। ओजस्तेजोबलवतां महतामात्मतेजसा । गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।। ७.५.२० ।। अस्माकमपि तावत्त्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। ७.५.२१ ।। विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः । निवासं कथयामास शक्रस्येवामरावतीम् ।। ७.५.२२ ।। दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ।। ७.५.२३ ।। शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे । शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ।। ७.५.२४ ।। त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता । स्वर्णप्राकारसंवीता हेमतोरणसंवृता ।। ७.५.२५ ।। मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता । तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ।। ७.५.२६ ।। अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः । लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।। ७.५.२७ ।। भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ।। ७.५.२८ ।। विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ।। ७.५.२९ ।। दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् । लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ।। ७.५.३० ।। एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ।। ७.५.३१ ।। तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।। ७.५.३२ ।। कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः । त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।। ७.५.३३ ।। दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कुतदारास्तु ते राम सुकेशतनयास्तदा ।। ७.५.३४ ।। चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः । ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।। ७.५.३५ ।। स तस्यां जनयामास यदपत्यं निबोध तत् । वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ।। ७.५.३६ ।। सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ।। ७.५.३७ ।। सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना । नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ।। ७.५.३८ ।। सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ।। ७.५.३९ ।। प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। ७.५.४० ।। संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः । राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ।। कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ।। ७.५.४१ ।। मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी । भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ।। ७.५.४२ ।। सुमालेरनुजस्तस्यां जनयामास यत् प्रभो । अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ।। ७.५.४३ ।। अनिलश्चानलश्चैव हरः सम्पातिरेव च । एते विभीषणामात्या मालेयास्तु निशाचरः ।। ७.५.४४ ।। ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः । सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ।। ७.५.४५ ।। जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः । वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ।। ७.५.४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चमः सर्गः ।। ५ ।।
Use the ← → keys to move between chapters.