Chapter 43 of 111
उत्तरकाण्डम्/सर्गः ४३
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः । कथानां बहुरूपाणां हास्यकाराः समन्ततः ।। ७.४३.१ ।। विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः । सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ।। ७.४३.२ ।। एते कथा बहुविधाः परिहाससमन्विताः । कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ।। ७.४३.३ ।। ततः कथायां कस्याञ्चिद्राघवः समभाषत । काः कथा नगरे भद्र वर्तन्ते विषयेषु च ।। ७.४३.४ ।। मामाश्रितानि कान्याहुः पौरजानपदा जनाः । किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ।। ७.४३.५ ।। किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् । वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ।। ७.४३.६ ।। एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् । स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ।। ७.४३.७ ।। अमुं तु विजयं सौम्य दशग्रीववधार्जितम् । भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ।। ७.४३.८ ।। एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् । कथयस्व यथातत्त्वं सर्वं निरवशेषतः ।। ७.४३.९ ।। शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः । श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ।। ७.४३.१० ।। कथयस्व च विस्रब्धो निर्भयं विगतज्वरः । कथयन्ति यथा पौराः पापा जनपदेषु च ।। ७.४३.११ ।। राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः । प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ।। ७.४३.१२ ।। शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् । चत्वरापणरथ्यासु वनेषूपवनेषु च ।। ७.४३.१३ ।। दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् । अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ।। ७.४३.१४ ।। रावणश्च दुराधर्षो हतः सबलवाहनः । वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ।। ७.४३.१५ ।। हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः । अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ।। ७.४३.१६ ।। कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् । अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ।। ७.४३.१७ ।। लङ्कामपि पुरा नीतामशोकवनिकां गताम् । रक्षसां वशमापन्नां कथं रामो न कुत्सते ।। ७.४३.१८ ।। अस्माकमपि दारेषु सहनीयं भविष्यति । यथा हि कुरुते राजा प्रजा तमनुवर्तते ।। ७.४३.१९ ।। एवं बहुविधा वाचो वदन्ति पुरवासिनः । नगरेषु च सर्वेषु राजञ्जनपदेषु च ।। ७.४३.२० ।। तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् । उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ।। ७.४३.२१ ।। सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च । प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ।। ७.४३.२२ ।। श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् । विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ।। ७.४३.२३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिचत्वारिंशः सर्गः ।। ४३ ।।
Use the ← → keys to move between chapters.