Chapter 40 of 111
उत्तरकाण्डम्/सर्गः ४०
तथा स्म तेषां वसतामृक्षवानररक्षसाम् । राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ।। ७.४०.१ ।। गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः । पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। ७.४०.२ ।। अङ्गदं च महाबाहो प्रीत्या परमया युतः । पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। ७.४०.३ ।। सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् । कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ।। ७.४०.४ ।। वीरं शतवलिं चैव मैन्दं द्विविदमेव च । गजं गवाक्षं गवयं शरभं च महाबलम् । पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।। ७.४०.५ ।। ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् । ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।। ७.४०.६ ।। पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ।। ७.४०.७ ।। एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः । विभीषणमुवाचाथ रामो मधुरया गिरा ।। ७.४०.८ ।। लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम । पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ।। ७.४०.९ ।। मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन । बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।। ७.४०.१० ।। अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया । स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ।। ७.४०.११ ।। रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः । साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ।। ७.४०.१२ ।। तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च । माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ।। ७.४०.१३ ।। तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् । हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ।। ७.४०.१४ ।। स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा । भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।। ७.४०.१५ ।। वायद्रामकथा वीर चरिष्यति महीतले । तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।। ७.४०.१६ ।। यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन । तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ।। ७.४०.१७ ।। तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो । उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ।। ७.४०.१८ ।। एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् । उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ।। ७.४०.१९ ।। एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः । चरिष्यति कथा यावदेषा लोके च मामिका । तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ।। ७.४०.२० ।। लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ।। ७.४०.२१ ।। लोके च मामिका । एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे । नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ।। ७.४०.२२ ।। ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः । वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ।। ७.४०.२३ ।। तेनोरसि निबद्धेन हारेण महता कपिः । रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ।। ७.४०.२४ ।। श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः । प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ।। ७.४०.२५ ।। सुग्रीवः स च रामेण निरन्तरमुरोगतः । विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ।। ७.४०.२६ ।। सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः । सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ।। ७.४०.२७ ।। कृतप्रसादास्तेनैवं राघवेण महात्मना । जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ।। ७.४०.२८ ।। ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् । वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ।। ७.४०.२९ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ।। ४० ।।
Use the ← → keys to move between chapters.