Chapter 34 of 111
उत्तरकाण्डम्/सर्गः ३४
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः । चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ।। ७.३४.१ ।। राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् । रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ।। ७.३४.२ ।। ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् । गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ।। ७.३४.३ ।। ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः । उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ।। ७.३४.४ ।। राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् । को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ।। ७.३४.५ ।। चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।। ७.३४.६ ।। एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः । युद्धार्थिनामिमे राजन्वानराधिपतेजसा ।। ७.३४.७ ।। यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस । तदा वालिनमासाद्य तदन्तं तव जीवितम् ।। ७.३४.८ ।। पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत । इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ।। ७.३४.९ ।। अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् । वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ।। ७.३४.१० ।। स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः । पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ।। ७.३४.११ ।। तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् । रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ।। ७.३४.१२ ।। पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः । ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ।। ७.३४.१३ ।। यदृच्छया तदा दृष्टो वालिनापि स रावणः । पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ।। ७.३४.१४ ।। शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा । न चिन्तयति तं वाली रावणं पापनिश्चयम् ।। ७.३४.१५ ।। जिघृक्षमाणमायान्तं रावणं पापचेतसम् । कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ।। ७.३४.१६ ।। द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् । लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ।। ७.३४.१७ ।। इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः । जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ।। ७.३४.१८ ।। तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ । प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ।। ७.३४.१९ ।। हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् । पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ।। ७.३४.२० ।। ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः । खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ।। ७.३४.२१ ।। तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः । जहार रावणं वाली पवनस्तोयदं यथा ।। ७.३४.२२ ।। अथ ते राक्षसामात्या ह्रियमाणं दशाननम् । मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ।। ७.३४.२३ ।। अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः । अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ।। ७.३४.२४ ।। ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः । तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ।। ७.३४.२५ ।। वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः । किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ।। ७.३४.२६ ।। अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः । क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ।। ७.३४.२७ ।। सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः । पश्चिमं सागरं वाली ह्याजगाम सरावणः ।। ७.३४.२८ ।। तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः । उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। ७.३४.२९ ।। बहुयोजनसाहस्रं वहमानो महाहरिः । वायुवच्च मनोवच्च जगाम सह शत्रुणा ।। ७.३४.३० ।। उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् । वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ।। ७.३४.३१ ।। तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः । किष्किन्धामभितो गृह्य रावणं पुनरागमत् ।। ७.३४.३२ ।। चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः । रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ।। ७.३४.३३ ।। रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः । कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ।। ७.३४.३४ ।। विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः । राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ।। ७.३४.३५ ।। वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः । युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ।। ७.३४.३६ ।। अहो बलमहो वीर्यमहो गाम्भीर्यमेव च । येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ।। ७.३४.३७ ।। एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् । मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ।। ७.३४.३८ ।। त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम । मनोनिलसुपर्णानां तव चात्र न संशयः ।। ७.३४.३९ ।। सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव । त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ।। ७.३४.४० ।। दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ।। ७.३४.४१ ।। ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ । भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ।। ७.३४.४२ ।। अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ । किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ।। ७.३४.४३ ।। स तत्र मासमुषितः सुग्रीव इव रावणः । अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ।। ७.३४.४४ ।। एवमेतत्पुरावृत्तं वालिना रावणः प्रभो । धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ।। ७.३४.४५ ।। बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् । सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ।। ७.३४.४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुस्त्रिंशः सर्गः ।। ३४ ।।
Use the ← → keys to move between chapters.