Chapter 27 of 111
उत्तरकाण्डम्/सर्गः २७
कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः । आससाद महातेजा इन्द्रलोकं निशाचरः ।। ७.२७.१ ।। तस्य राक्षससैन्यस्य समन्तादुपयास्यतः । देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ।। ७.२७.२ ।। श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् । अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ।। ७.२७.३ ।। आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् । सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ।। ७.२७.४ ।। एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि । सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ।। ७.२७.५ ।। स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति । विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ।। ७.२७.६ ।। विष्णो कथं करिष्यामि महावीर्यपराक्रमः । असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ।। ७.२७.७ ।। वरप्रदानाद्बलवान्न खल्वन्येन हेतुना । तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ।। ७.२७.८ ।। तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ । त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। ७.२७.९ ।। नह्यन्यो देवदेवेश त्वामृते मधुसूदन । गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ।। ७.२७.१० ।। त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः । त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। ७.२७.११ ।। त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् । त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ।। ७.२७.१२ ।। तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् । अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ।। ७.२७.१३ ।। एवमुक्तः स शक्रेण देवो नारायणः प्रभुः । अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ।। ७.२७.१४ ।। न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः । हन्तुं चापि समासाद्य वरदानेन दुर्जयः ।। ७.२७.१५ ।। सर्वथा तु महत्कर्म करिष्यति बलोत्कटः । राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ।। ७.२७.१६ ।। यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर । नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ।। ७.२७.१७ ।। नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते । दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ।। ७.२७.१८ ।। प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो । भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ।। ७.२७.१९ ।। अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् । देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् । एतत्ते कथितं तत्त्वं देवराज शचीपते ।। ७.२७.२० ।। युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ।। ७.२७.२१ ।।यामि ज्ञात्वा कालमुपागतम् । ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ । सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ।। ७.२७.२२ ।। एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये । तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ।। ७.२७.२३ ।। ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै । सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ।। ७.२७.२४ ।। ततो दैवतसैन्यनां सङ्क्षोभः समजायत । तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ।। ७.२७.२५ ।। ततो युद्धं समभवेद्देवदानवरक्षसाम् । घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ।। ७.२७.२६ ।। एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः । युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ।। ७.२७.२७ ।। मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ । अकम्पनो निकुम्भश्च शुकः सारण एव च ।। ७.२७.२८ ।। संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः । जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ।। ७.२७.२९ ।। सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः । त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ।। ७.२७.३० ।। महाकायो ऽतिकायश्च देवान्तकनरान्तकौ । एतैः सर्वैः परिवृतो महावीर्यो महाबलः ।। ७.२७.३१ ।। रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह । स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः । व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ।। ७.२७.३२ ।। तद्दैवतबलं राम हन्यमानं निशाचरैः । प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ।। ७.२७.३३ ।। एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः । सावित्र इति विख्यातः प्रविवेश रणाजिरम् ।। ७.२७.३४ ।। तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ । निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ।। ७.२७.३५ ।। ततो युद्धं समभवत्सुराणां सह राक्षसैः । क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ।। ७.२७.३६ ।। ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् । नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ।। ७.२७.३७ ।। देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् । समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ।। ७.२७.३८ ।। एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः । नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ।। ७.२७.३९ ।। स दैवतबलं सर्वं नानाप्रहणैः शितैः । व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ।। ७.२७.४० ।। ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः । हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ।। ७.२७.४१ ।। ततो विद्राव्यमाणेषु दैवतेषु सुमालिना । वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ।। ७.२७.४२ ।। संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् । विक्रमेण महातेजा वारयामास संयुगे ।। ७.२७.४३ ।। ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।। ७.२७.४४ ।। सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः । ततस्तस्य महाबाणैर्वसुना सुमहात्मना । निहतः पन्नगरथः क्षणेन विनिपातितः ।। ७.२७.४५ ।। हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् । गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ।। ७.२७.४६ ।। ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् । तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ।। ७.२७.४७ ।। सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा । इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ।। ७.२७.४८ ।। तस्य नैवास्थि न शिरो न मांसं ददृशे तदा । गदया भस्मतां नीतं निहतस्य रणाजिरे ।। ७.२७.४९ ।। तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः । व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् । विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ।। ७.२७.५० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तविंशः सर्गः ।। २७ ।।
Use the ← → keys to move between chapters.