Skip to content
The ConsciousLibrary

Chapter 23 of 111

उत्तरकाण्डम्/सर्गः २३

ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् । रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ।। ७.२३.१ ।। ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् । रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ।। ७.२३.२ ।। जयेन वर्धयित्वा च मारीचप्रमुखास्ततः । पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ।। ७.२३.३ ।। ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् । दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ।। ७.२३.४ ।। स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् । कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ।। ७.२३.५ ।। निवातकवचास्तत्र दैत्या लब्धवरा वसन् । राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ।। ७.२३.६ ।। ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः । नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ।। ७.२३.७ ।। शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः । अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ।। ७.२३.८ ।। तेषां तु युध्यमानानां साग्रः संवत्सरो गतः । न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ।। ७.२३.९ ।। ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः । आजगाम द्रुतं देवो विमानवरमास्थितः ।। ७.२३.१० ।। निवातकवचानां तु निवार्य रणकर्म तत् । वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ।। ७.२३.११ ।। नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः । न भवन्तः क्षयं नेतुमपि सामरदानवैः ।। ७.२३.१२ ।। राक्षसस्य सखित्वं च भवद्भिः सह रोचते । अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ।। ७.२३.१३ ।। ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः । निवातकवचैः सार्धं प्रीतिमानभवत्तदा ।। ७.२३.१४ ।। अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः । स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ।। ७.२३.१५ ।। ततोपधार्य मायानां शतमेकं समाप्तवान् । सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ।। ७.२३.१६ ।। ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् । गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ।। ७.२३.१७ ।। शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा । श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् । जिह्वया संलिहन्तं च राक्षसं समरे तथा ।। ७.२३.१८ ।। तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ।। ७.२३.१९ ।। ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् । वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ।। ७.२३.२० ।। क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् । यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ।। ७.२३.२१ ।। ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् । यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ।। ७.२३.२२ ।। यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः । अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ।। ७.२३.२३ ।। यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः । प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।। ७.२३.२४ ।। प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः । ततो धाराशताकीर्णं शारदाभ्रनिभं तदा । नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ।। ७.२३.२५ ।। ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः । अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ।। ७.२३.२६ ।। युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् । वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ।। ७.२३.२७ ।। एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः । पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ।। ७.२३.२८ ।। ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः । युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ।। ७.२३.२९ ।। ततो युद्धं समभवद्दारुणं रोमहर्षणम् । सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ।। ७.२३.३० ।। अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः । वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ।। ७.२३.३१ ।। समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा । अर्दिताः शरजालेन निवृत्ता रणकर्मणः ।। ७.२३.३२ ।। महीतलगतास्ते तु रावणं दृश्य पुष्पके । आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ।। ७.२३.३३ ।। महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् । आकाशयुद्धं तुमुलं देवदानवयोरिव ।। ७.२३.३४ ।। ततस्ते रावणं युद्धे शरैः पावकसन्निभैः । विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ।। ७.२३.३५ ।। ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् । त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ।। ७.२३.३६ ।। तेन ते दारुणा युद्धे कामगाः पवनोपमाः । महोदरेण गदया हता वै प्रययुः क्षितिम् ।। ७.२३.३७ ।। तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् । मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ।। ७.२३.३८ ।। ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः । महोदरेण निहताः पतिताः पृथिवीतले ।। ७.२३.३९ ।। ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः । आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ।। ७.२३.४० ।। धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् । रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ।। ७.२३.४१ ।। सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः । दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ।। ७.२३.४२ ।। ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः । शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ।। ७.२३.४३ ।। ततस्तेनैव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततो भल्लशतानि च ।। ७.२३.४४ ।। पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा । पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ।। ७.२३.४५ ।। अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः । महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ।। ७.२३.४६ ।। सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः । ननाद रावणो हर्षान्महानम्बुधरो यथा ।। ७.२३.४७ ।। ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् । नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ।। ७.२३.४८ ।। ततस्ते विमुखाः सर्वे पतिता धरणीतले । रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ।। ७.२३.४९ ।। तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।। ७.२३.५० ।। रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः । गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।। ७.२३.५१ ।। गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत्किं तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ।। ७.२३.५२ ।। राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः । हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ।। ७.२३.५३ ।। आगतस्तु पथा येन तेनैव विनिवृत्य सः । लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ।। ७.२३.५४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोविंशः सर्गः ।। २३ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः २३ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library