Chapter 22 of 111
उत्तरकाण्डम्/सर्गः २२
स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः । शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ।। ७.२२.१ ।। स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः । अब्रवीत्त्वरितं सूतं रथो ऽयमुपनीयताम् ।। ७.२२.२ ।। तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा ह्यध्यारोहत तं रथम् । प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ।। ७.२२.३ ।। येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् । यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ।। ७.२२.४ ।। तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ।। ७.२२.५ ।। पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ।। ७.२२.६ ।। ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ।। ७.२२.७ ।। ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् । प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ।। ७.२२.८ ।। मुहूर्तेन यमं ते तु हया हरिहयोपमाः । प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ।। ७.२२.९ ।। दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ।। ७.२२.१० ।। लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः । नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ।। ७.२२.११ ।। स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ।। ७.२२.१२ ।। स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ।। ७.२२.१३ ।। रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ।। ७.२२.१४ ।। ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) । नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ।। ७.२२.१५ ।। एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा । सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ।। ७.२२.१६ ।। तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः । जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ।। ७.२२.१७ ।। ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ।। ७.२२.१८ ।। संवर्त इव लोकानां क्रुध्यतोरभवत्तदा । राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ।। ७.२२.१९ ।। राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् । निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ।। ७.२२.२० ।। मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् । यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ।। ७.२२.२१ ।। ततः क्रुद्धस्य वदनाद्यमस्य समजायत । ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ।। ७.२२.२२ ।। तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ । प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ।। ७.२२.२३ ।। ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् । नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ।। ७.२२.२४ ।। हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा । विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ।। ७.२२.२५ ।। दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च । राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ।। ७.२२.२६ ।। ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः । युगान्तपरिवर्ते च पृथिवी समहार्णवा ।। ७.२२.२७ ।। क्षयं नीता महाराज सपर्वतसरिद्द्रुमा । एते चान्ये च बहवो बलवन्तो दुरासदाः ।। ७.२२.२८ ।। विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ।। ७.२२.२९ ।। मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । नहि कश्चिन्मया दृष्टो बलवानपि जीवति ।। ७.२२.३० ।। बलं मम न खल्वेतन्मर्यादैषा निसर्गतः । स दृष्टो न मया कालं मुहुर्तमापि जीवति ।। ७.२२.३१ ।। तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् । अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ।। ७.२२.३२ ।। ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । कालदण्डममोघं तु तोलयामास पाणिना ।। ७.२२.३३ ।। यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः । पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ।। ७.२२.३४ ।। दर्शनादेव यः प्राणान्प्राणिनामपकर्षति । किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ।। ७.२२.३५ ।। स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् । तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत् ।। ७.२२.३६ ।। ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे । सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ।। ७.२२.३७ ।। तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् । यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ।। ७.२२.३८ ।। वैवस्वत महाबाहो न खल्वमितविक्रम । न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ।। ७.२२.३९ ।। वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव । स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ।। ७.२२.४० ।। यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा । त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ।। ७.२२.४१ ।। क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये । प्रजाः संहरते रौद्रो लोकत्रयभयावहः ।। ७.२२.४२ ।। अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः । कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ।। ७.२२.४३ ।। तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि । नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ।। ७.२२.४४ ।। यदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः । म्रियते वा दशग्रीवस्तदाप्युभयतो ऽनृतम् ।। ७.२२.४५ ।। तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम् । सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ।। ७.२२.४६ ।। एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा । एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ।। ७.२२.४७ ।। किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि । न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ।। ७.२२.४८ ।। एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः । इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ।। ७.२२.४९ ।। दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः । आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ।। ७.२२.५० ।। स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः । जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ।। ७.२२.५१ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वाविंशः सर्गः ।। २२ ।।
Use the ← → keys to move between chapters.