Chapter 21 of 111
उत्तरकाण्डम्/सर्गः २१
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। ७.२१.१ ।। अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ।। ७.२१.२ ।। स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् । अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ।। ७.२१.३ ।। कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति । किमागमनकृत्यं ते देवगन्धर्वसेवित ।। ७.२१.४ ।। अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। ७.२१.५ ।। एष नाम्नो दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। ७.२१.६ ।। एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो । दण्डप्रहरणस्याद्य तव किं नु भविष्यति ।। ७.२१.७ ।। एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् । ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ।। ७.२१.८ ।। तं देशं प्रभया तस्य पुष्पकस्य महाबलः । कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ।। ७.२१.९ ।। सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ।। ७.२१.१० ।। अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह । यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ।। ७.२१.११ ।। ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः । क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।। ७.२१.१२ ।। कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ।। ७.२१.१३ ।। क्षोत्रायासकरा वाचो वदतश्च भयावहाः । सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ।। ७.२१.१४ ।। वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः । असिपत्रवने चैव भिद्यमानानधार्मिकान् ।। ७.२१.१५ ।। रौरवे क्षारनद्यां च क्षुरधारासु चैव हि । पानीयं याचमानांश्च तृषितान्क्षुधितानपि ।। ७.२१.१६ ।। शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् । मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ।। ७.२१.१७ ।। ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः । कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ।। ७.२१.१८ ।। गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ।। ७.२१.१९ ।। सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ।। ७.२१.२० ।। धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा । ददर्श सुमहाबाहू रावणो राक्षसाधिपः ।। ७.२१.२१ ।। ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः । रावणो मोचयामास विक्रमेण बलाद्बली ।। ७.२१.२२ ।। प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ।। ७.२१.२३ ।। प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ।। ७.२१.२४ ।। ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः । धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ।। ७.२१.२५ ।। ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः ।। ७.२१.२६ ।। तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ।। ७.२१.२७ ।। देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ।। ७.२१.२८ ।। असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः । शूराणामग्रयातऽणां सहस्राणि शतानि च ।। ७.२१.२९ ।। ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा । ततस्ते सचिवास्तस्य यथाकामं यथाबलम् । अयुध्यन्त महावीराः स च राजा दशाननः ।। ७.२१.३० ।। ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः । अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ।। ७.२१.३१ ।। अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् । यमस्य च महाबाहो रावणस्य च मन्त्रिणः ।। ७.२१.३२ ।। अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः । तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ।। ७.२१.३३ ।। ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः । फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ।। ७.२१.३४ ।। स तु शूलगदापासाञ्छक्तितोमरसायकान् । मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ।। ७.२१.३५ ।। तरूणां च शिलानां च शस्त्राणां चातिदारुणम् । यमसैन्येषु तद्वर्षं पपात धरणीतले ।। ७.२१.३६ ।। तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च । जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ।। ७.२१.३७ ।। परिवार्य च तं सर्वे शैलं मोघोत्करा इव । भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ।। ७.२१.३८ ।। विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ।। ७.२१.३९ ।। ततः स कार्मुकी वाणी समरे चाभिवर्तत । लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ।। ७.२१.४० ।। ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके । तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ।। ७.२१.४१ ।। आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ।। ७.२१.४२ ।। तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ।। ७.२१.४३ ।। ज्वालामाली स तु शरः क्रव्यादानुगतो रणे । मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ।। ७.२१.४४ ।। ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु । रणे तस्मिन्निपतिता दावदग्धा नगा इव ।। ७.२१.४५ ।। ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। ७.२१.४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकविंशः सर्गः ।। २१ ।।
Use the ← → keys to move between chapters.