Skip to content
The ConsciousLibrary

Chapter 2 of 111

उत्तरकाण्डम्/सर्गः २

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ।। ७.२.१ ।। शृणु राम कथावृत्तं तस्य तेजोबलं महत् । जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ।। ७.२.२ ।। तावत्ते रावणस्येदं कुलं जन्म च राघव । वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ।। ७.२.३ ।। पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः । पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ।। ७.२.४ ।। नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा । प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ।। ७.२.५ ।। प्रजापतिसुतत्वेन देवानां वल्लभो हि सः । हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ।। ७.२.६ ।। स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः । तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ।। ७.२.७ ।। तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः । गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ।। ७.२.८ ।। देवपन्नगकन्याश्च राजर्षितनयाश्च याः । क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ।। ७.२.९ ।। सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च । नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ।। ७.२.१० ।। देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः । गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च । मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ।। ७.२.११ ।। अथ क्रुद्धो महातेजा व्याजहार महामुनिः । या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ।। ७.२.१२ ।। तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः । ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ।। ७.२.१३ ।। तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।। ७.२.१४ ।। गत्वाश्रमपदं तत्र विचचार सुनिर्भया । न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ।। ७.२.१५ ।। तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः । स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ।। ७.२.१६ ।। सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् । अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ।। ७.२.१७ ।। वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः । इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ।। ७.२.१८ ।। तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् । किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ।। ७.२.१९ ।। सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् । न जाने कारणं तात येन मे रूपमीदृशम् ।। ७.२.२० ।। किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः । पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ।। ७.२.२१ ।। न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् । रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ।। ७.२.२२ ।। तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः । ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ।। ७.२.२३ ।। स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः । गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ।। ७.२.२४ ।। भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् । भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ।। ७.२.२५ ।। तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते । शुश्रूषणपरा नित्यं भविष्यति न संशयः ।। ७.२.२६ ।। तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा । जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ।। ७.२.२७ ।। दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः । सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।। ७.२.२८ ।। तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः । प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ।। ७.२.२९ ।। परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् । तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।। ७.२.३० ।। उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् । यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ।। ७.२.३१ ।। तस्मात्स विश्रवा नाम भविष्यति न संशयः । एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।। ७.२.३२ ।। अचिरेणैव कालेनासूत विश्रवसं सुतम् । त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ।। ७.२.३३ ।। श्रुतिमान्समदर्शी च व्रताचाररतस्तथा । पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ।। ७.२.३४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वितीयः सर्गः ।। २ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः २ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library