Skip to content
The ConsciousLibrary

Chapter 16 of 111

उत्तरकाण्डम्/सर्गः १६

स जित्वा धनदं राम भ्रातरं राक्षसाधिपः । महासेनप्रसूतिं तद्ययौ शरवणं महत् ।। ७.१६.१ ।। अथापश्यदृशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ।। ७.१६.२ ।। स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् । अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ।। ७.१६.३ ।। विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ।। ७.१६.४ ।। किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ।। ७.१६.५ ।। ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः । नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ।। ७.१६.६ ।। अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ।। ७.१६.७ ।। इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ।। ७.१६.८ ।। ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् । नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ।। ७.१६.९ ।। निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः । सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।। ७.१६.१० ।। सर्वेषामेव भूतानामगम्यः पर्वतः कृतः । इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। ७.१६.११ ।। रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः । को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ।। ७.१६.१२ ।। सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् । दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ।। ७.१६.१३ ।। तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः । प्रहासं मुमुचे तत्र सतोय इव तोयदः ।। ७.१६.१४ ।। तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः । अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। ७.१६.१५ ।। यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसङ्काशमपहासं प्रमुक्तवान् ।। ७.१६.१६ ।। तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ।। ७.१६.१७ ।। नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः । युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ।। ७.१६.१८ ।। ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् । व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ।। ७.१६.१९ ।। किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर । न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ।। ७.१६.२० ।। इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।। ७.१६.२१ ।। अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः ।। ७.१६.२२ ।। पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः । तमिमं शैलमुन्मूलं करोमि तव गोपते ।। ७.१६.२३ ।। केन प्रभावेण भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। ७.१६.२४ ।। एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते । तोलयामास तं शीघ्रं स शैलं समकम्पत ।। ७.१६.२५ ।। चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः । चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ।। ७.१६.२६ ।। ततो राम महादवो देवानां प्रवरो हरः । पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। ७.१६.२७ ।। पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः । विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ।। ७.१६.२८ ।। रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा । मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ।। ७.१६.२९ ।। मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये । तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ।। ७.१६.३० ।। समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः । यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ।। ७.१६.३१ ।। अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् । तोषयस्व महादेवं नीलकण्ठमुमापतिम् ।। ७.१६.३२ ।। तमृते शरणं नान्यं पश्यामो ऽत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। ७.१६.३३ ।। कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति । एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ।। ७.१६.३४ ।। सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः । संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ।। ७.१६.३५ ।। ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः । मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ।। ७.१६.३६ ।। प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन । शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ।। ७.१६.३७ ।। यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ।। ७.१६.३८ ।। देवता मानुषा यक्षा ये चान्ये जगतीतले । एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ।। ७.१६.३९ ।। गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि । मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ।। ७.१६.४० ।। एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् । प्रीतो यदि महादेव वरं मे देहि याचतः ।। ७.१६.४१ ।। अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः । राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ।। ७.१६.४२ ।। मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः । दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।। ७.१६.४३ ।। वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे । एवमुक्तस्ततस्तेन रावणेन स शङ्करः ।। ७.१६.४४ ।। ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् । आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। ७.१६.४५ ।। दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया । अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। ७.१६.४६ ।। एवं महेश्वरेणैव कृतनामा स रावणः । अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। ७.१६.४७ ।। ततो महीतले राम पर्यक्रामत रावणः । क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ।। ७.१६.४८ ।। केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः । तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। ७.१६.४९ ।। अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः । जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। ७.१६.५० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षोडशः सर्गः ।। १६ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः १६ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library