Skip to content
The ConsciousLibrary

Chapter 13 of 111

उत्तरकाण्डम्/सर्गः १३

अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ।। ७.१३.१ ।। ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयस्व ममालयम् ।। ७.१३.२ ।। विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् । विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।। ७.१३.३ ।। दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे । स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।। ७.१३.४ ।। वैडूर्यकृतसोपानं किङ्किणीजालकं तथा । दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ।। ७.१३.५ ।। मनोहरं सर्वसुखं कारयामास राक्षसः । सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ।। ७.१३.६ ।। तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः । बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ।। ७.१३.७ ।। निद्राभिभूते तु तदा कुम्भकर्णे दशाननः । देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ।। ७.१३.८ ।। उद्यानानि च चित्राणि नन्दनादीनि यानि च । तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ।। ७.१३.९ ।। नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् । नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ।। ७.१३.१० ।। तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः । कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ।। ७.१३.११ ।। सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा । लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ।। ७.१३.१२ ।। स गत्वा नगरीं लङ्कामाससाद विभीषणम् । मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ।। ७.१३.१३ ।। पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः । सभायां दर्शयामास तमासीनं दशाननम् ।। ७.१३.१४ ।। स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा । जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ।। ७.१३.१५ ।। तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते । उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ।। ७.१३.१६ ।। राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् । उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ।। ७.१३.१७ ।। साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः । साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ।। ७.१३.१८ ।। दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः । देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ।। ७.१३.१९ ।। निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप । अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ।। ७.१३.२० ।। अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् । रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ।। ७.१३.२१ ।। तत्र देवो मया दृष्टः सह देव्या मया प्रभुः । सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ।। ७.१३.२२ ।। का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना । रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ।। ७.१३.२३ ।। देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् । रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ।। ७.१३.२४ ।। ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् । तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ।। ७.१३.२५ ।। समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः । प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ।। ७.१३.२६ ।। पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् । प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ।। ७.१३.२७ ।। मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप । तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ।। ७.१३.२८ ।। व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा । तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ।। ७.१३.२९ ।। तपसा निर्जितश्चैव सखा भव ममानघ । देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ।। ७.१३.३० ।। एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् । एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ।। ७.१३.३१ ।। आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ।। ७.१३.३२ ।। तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् । चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ।। ७.१३.३३ ।। एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः । हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ।। ७.१३.३४ ।। विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे । नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ।। ७.१३.३५ ।। हितं नैष ममैतद्धि ब्रवीति धनरक्षकः । महेश्वरसखित्वं तु मूढ श्रावयते किल ।। ७.१३.३६ ।। न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया । यदेतावन्मया कालं दूत तस्य तु मर्षितम् ।। ७.१३.३७ ।। न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते । तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ।। ७.१३.३८ ।। त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ।। ७.१३.३९ ।। एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते । चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ।। ७.१३.४० ।। एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् । ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ।। ७.१३.४१ ।। एवं कृतस्वस्त्ययनो रथमारुह्य रावणः । त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ।। ७.१३.४२ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोदशः सर्गः ।। १३ ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः १३ · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library