Chapter 1 of 10
जाबालदर्शनोपनिषत् · 1 · 1
यमाद्यष्टाङ्गयोगेद्धं ब्रह्ममात्रप्रबोधतः । योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥
दत्तात्रेयो महायोगी भगवान्भूतभावनः । चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः ॥ १.१॥ तस्य शिष्यो मुनिवरः साङ्कृतिर्नाम भक्तिमान् । पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ॥ २॥ भगवन्ब्रूहि मे योगं साष्टाङ्गं सप्रपञ्चकम् । येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् ॥ ३॥ साङ्कृते श्रुणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् । यमश्च नियमश्चैव तथैवासनमेव च ॥ ४॥ प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् । धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने ॥ ५॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् । क्षमा धृतिर्मिताहारः शौचं चैव यमा दश ॥ ६॥ वेदोक्तेन प्रकारेण विना सत्यं तपोधन । कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा ॥ ७॥ आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः । स चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः ॥ ८॥ चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर । तस्यैवोक्तिर्भवेत्सत्यं विप्र तन्नान्यथा भवेत् ॥ ९॥ सर्वं सत्यं परं ब्रह्म न चान्यदिति या मतिः । तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः ॥ १०॥ अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च । मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः ॥ ११॥ आत्मन्यनात्मभावेन व्यवहारविवर्जितम् । यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ॥ १२॥ कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् । ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते ॥ १३॥ ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परन्तप ॥ १४॥ स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा । अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः ॥ १५॥ पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि सन्ततम् । एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ॥ १६॥ कायेन मनसा वाचा शत्रुभिः परिपीडिते । बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ॥ १७॥ वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा । इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः । अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः ॥ १८॥ अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम् । तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ॥ १९॥ स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने । यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः । अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः ॥ २०॥ अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ २१॥ ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः । स मूढः काऽचनं त्यक्त्वा लोष्ठं गृह्णाति सुव्रत ॥ २२॥ ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ २३॥ लोकत्रयेऽपि कर्तव्यं किञ्चिन्नास्त्यात्मवेदिनाम् ॥ २४॥ तस्मात्सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः । आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् ॥ २५॥ इति प्रथमः खण्डः ॥ १॥
Use the ← → keys to move between chapters.