Chapter 1 of 8
अथ प्रथमोऽध्यायः॥
ईश्वरानुग्रहादेव पुंसामद्वैतवासना। महद्भयपरित्राणाद्विप्राणामुपजायते॥१॥ येनेदं पूरितं सर्वमात्मनैवात्मनात्मनि। निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम्॥२॥ पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम्। कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः॥३॥ आत्मैव केवलं सर्वं भेदाभेदो न विद्यते। अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे॥४॥ वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च। अहमात्मा निराकारः सर्वव्यापी स्वभावतः॥५॥ यो वै सर्वात्मको देवो निष्कलो गगनोपमः। स्वभावनिर्मलः शुद्धः स एवायं न संशयः॥६॥ अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः। सुखं दुःखं न जानामि कथं कस्यापि वर्तते॥७॥ न मानसं कर्म शुभाशुभं मे न कायिकं कर्म शुभाशुभं मे। न वाचिकं कर्म शुभाशुभं मे ज्ञानामृतं शुद्धमतीन्द्रियोऽहम्॥८॥ मनो वै गगनाकारं मनो वै सर्वतोमुखम्। मनोऽतीतं मनः सर्वं न मनः परमार्थतः॥९॥ अहमेकमिदं सर्वं व्योमातीतं निरन्तरम्। पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम्॥१०॥ त्वमेवमेकं हि कथं न बुध्यसे समं हि सर्वेषु विमृष्टमव्ययम्। सदोदितोऽसि त्वमखण्डितः प्रभो दिवा च नक्तं च कथं हि मन्यसे॥११॥ आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम्। अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम्॥१२॥ न जातो न मृतोऽसि त्वं न ते देहः कदाचन। सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः॥१३॥ स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा। इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत्॥१४॥ संयोगश्च वियोगश्च वर्तते न च ते न मे। न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम्॥१५॥ शब्दादिपञ्चकस्यास्य नैवासि त्वं न ते पुनः। त्वमेव परमं तत्त्वमतः किं परितप्यसे॥१६॥ जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ। कथं रोदिषि रे वत्स नामरूपं न ते न मे॥१७॥ अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत्। अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव॥१८॥ त्वमेव तत्त्वं हि विकारवर्जितं निष्कम्पमेकं हि विमोक्षविग्रहम्। न ते च रागो ह्यथवा विरागः कथं हि सन्तप्यसि कामकामतः॥१९॥ वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम्। अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः॥२०॥ साकारमनृतं विद्धि निराकारं निरन्तरम्। एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः॥२१॥ एकमेव समं तत्त्वं वदन्ति हि विपश्चितः। रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते॥२२॥ अनात्मरूपं च कथं समाधि- रात्मस्वरूपं च कथं समाधिः। अस्तीति नास्तीति कथं समाधि- र्मोक्षस्वरूपं यदि सर्वमेकम्॥२३॥ विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः। जानामीह न जानामीत्यात्मानं मन्यसे कथम्॥२४॥ तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः। नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम्॥२५॥ आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम्। ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम्॥२६॥ शिवं न जानामि कथं वदामि शिवं न जानामि कथं भजामि। अहं शिवश्चेत्परमार्थतत्त्वं समस्वरूपं गगनोपमं च॥२७॥ नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम्। ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत्॥२८॥ अनन्तरूपं न हि वस्तु किंचि- त्तत्त्वस्वरूपं न हि वस्तु किंचित्। आत्मैकरूपं परमार्थतत्त्वं न हिंसको वापि न चाप्यहिंसा॥२९॥ विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम्। विभ्रमं कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः॥३०॥ घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम्। शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे॥३१॥ न घटो न घटाकाशो न जीवो न जीवविग्रहः। केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम्॥३२॥ सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम्। सर्वं शून्यमशून्यं च तन्मां विद्धि न संशयः॥३३॥ वेदा न लोका न सुरा न यज्ञा वर्णाश्रमो नैव कुलं न जातिः। न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम्॥३४॥ व्याप्यव्यापकनिर्मुक्तः त्वमेकः सफलं यदि। प्रत्यक्षं चापरोक्षं च ह्यात्मानं मन्यसे कथम्॥३५॥ अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे। समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम्॥३६॥ श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम्। कथयन्ति कथं तत्त्वं मनोवाचामगोचरम्॥३७॥ यदाऽनृतमिदं सर्वं देहादिगगनोपमम्। तदा हि ब्रह्म संवेत्ति न ते द्वैतपरम्परा॥३८॥ परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे। व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत्॥३९॥ यत्करोमि यदश्नामि यज्जुहोमि ददामि यत्। एतत्सर्वं न मे किंचिद्विशुद्धोऽहमजोऽव्ययः॥४०॥ सर्वं जगद्विद्धि निराकृतीदं सर्वं जगद्विद्धि विकारहीनम्। सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम्॥४१॥ तत्त्वं त्वं न हि सन्देहः किं जानाम्यथवा पुनः। असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम्॥४२॥ मायाऽमाया कथं तात छायाऽछाया न विद्यते। तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम्॥४३॥ आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन। स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः॥४४॥ महदादि जगत्सर्वं न किंचित्प्रतिभाति मे। ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः॥४५॥ जानामि सर्वथा सर्वमहमेको निरन्तरम्। निरालम्बमशून्यं च शून्यं व्योमादिपञ्चकम्॥४६॥ न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना। सानन्दो वा निरानन्दमात्मानं मन्यसे कथम्॥४७॥ षडङ्गयोगान्न तु नैव शुद्धं मनोविनाशान्न तु नैव शुद्धम्। गुरूपदेशान्न तु नैव शुद्धं स्वयं च तत्त्वं स्वयमेव बुद्धम्॥४८॥ न हि पञ्चात्मको देहो विदेहो वर्तते न हि। आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम्॥४९॥ न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक्। न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः॥५०॥ यथा जलं जले न्यस्तं सलिलं भेदवर्जितम्। प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे॥५१॥ यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन। साकारं च निराकारमात्मानं मन्यसे कथम्॥५२॥ जानामि ते परं रूपं प्रत्यक्षं गगनोपमम्। यथा परं हि रूपं यन्मरीचिजलसन्निभम्॥५३॥ न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया। विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः॥५४॥ विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम्। अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे॥५५॥ कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव। पिब वत्स कलातीतमद्वैतं परमामृतम्॥५६॥ नैव बोधो न चाबोधो न बोधाबोध एव च। यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत्॥५७॥ ज्ञानं न तर्को न समाधियोगो न देशकालौ न गुरूपदेशः। स्वभावसंवित्तरहं च तत्त्व- माकाशकल्पं सहजं ध्रुवं च॥५८॥ न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम्। विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम॥५९॥ यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः। अन्तरं हि न पश्यामि स बाह्याभ्यन्तरः कथम्॥६०॥ स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम्। अहो मायामहामोहो द्वैताद्वैतविकल्पना॥६१॥ साकारं च निराकारं नेति नेतीति सर्वदा। भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः॥६२॥ न ते च माता च पिता च बन्धुः न ते च पत्नी न सुतश्च मित्रम्। न पक्षपाती न विपक्षपातः कथं हि संतप्तिरियं हि चित्ते॥६३॥ दिवा नक्तं न ते चित्तं उदयास्तमयौ न हि। विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः॥६४॥ नाविभक्तं विभक्तं च न हि दुःखसुखादि च। न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम्॥६५॥ नाहं कर्ता न भोक्ता च न मे कर्म पुराऽधुना। न मे देहो विदेहो वा निर्ममेति ममेति किम्॥६६॥ न मे रागादिको दोषो दुःखं देहादिकं न मे। आत्मानं विद्धि मामेकं विशालं गगनोपमम्॥६७॥ सखे मनः किं बहुजल्पितेन सखे मनः सर्वमिदं वितर्क्यम्। यत्सारभूतं कथितं मया ते त्वमेव तत्त्वं गगनोपमोऽसि॥६८॥ येन केनापि भावेन यत्र कुत्र मृता अपि। योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे॥६९॥ तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन्। समकाले तनुं मुक्तः कैवल्यव्यापको भवेत्॥७०॥ धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम्। मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम्॥७१॥ अतीतानागतं कर्म वर्तमानं तथैव च। न करोमि न भुञ्जामि इति मे निश्चला मतिः॥७२॥ शून्यागारे समरसपूत- स्तिष्ठन्नेकः सुखमवधूतः। चरति हि नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम्॥७३॥ त्रितयतुरीयं नहि नहि यत्र विन्दति केवलमात्मनि तत्र। धर्माधर्मौ नहि नहि यत्र बद्धो मुक्तः कथमिह तत्र॥७४॥ विन्दति विन्दति नहि नहि मन्त्रं छन्दोलक्षणं नहि नहि तन्त्रम्। समरसमग्नो भावितपूतः प्रलपितमेतत्परमवधूतः॥७५॥ सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते। स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम्॥७६॥ इति प्रथमोऽध्यायः॥१॥
Use the ← → keys to move between chapters.