Chapter 3 of 4
गौडपादकारिका (cuatro prakaraṇa) · 3 · 1
अथ गौडपादीयकारिकास्वद्वैताख्यं तृतीयं प्रकरणम् । ओं उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ ३.१ ॥ अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् । यथा न जायते किंचिज्जायमानं समन्ततः ॥ ३.२ ॥ आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः । घटादिवच्च संघातैर्जातावेतन्निदर्शनम् ॥ ३.३ ॥ घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ ३.४ ॥ यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते । न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ३.५ ॥ रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै । आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ३.६ ॥ नाकाशस्य घटाकाशो विकारावयवौ यथा । नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ ३.७ ॥ यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्यबुद्धानामात्मापि मलिनो मलैः ॥ ३.८ ॥ मरणे संभवे चैव गत्यागमनयोरपि । (स्थितौ /स्थितः) सर्वशरीरेषु (आकाशेना[K,ष्]चाकाशेना)विलक्षणः ॥ ३.९ ॥ संघाताः स्वप्नवत्(सर्वे /ष्]सर्वे) आत्ममायाविसर्जिताः । आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ ३.१० ॥ रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके । तेषामात्मा परो जीवः (खं यथा /सयथा) संप्रकाशितः ॥ ३.११ ॥ द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् । पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ ३.१२ ॥ जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते । नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ ३.१३ ॥ जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् । भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं (हि न /न हि) युज्यते ॥ ३.१४ ॥ मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथंचन ॥ ३.१५ ॥ आश्रमास्त्रिविधा हीन मध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ ३.१६ ॥ स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ ३.१७ ॥ अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ ३.१८ ॥ मायया भिद्यते ह्येतन्नान्यथाजं कथंचन । तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ ३.१९ ॥ अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ ३.२० ॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ ३.२१ ॥ स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ३.२२ ॥ भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ ३.२३ ॥ नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि । अजायमानो बहुधा मायया जायते तु सः ॥ ३.२४ ॥ संभूतेरपवादाच्च संभवः प्रतिषिध्यते । को (न्व्[/ष्]त्व्) एनं जनयेदिति कारणं प्रतिषिध्यते ॥ ३.२५ ॥ स एष नेति नेतीति व्याख्यातं निह्नुते यतः । सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ ३.२६ ॥ सतो हि मायया जन्म युज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ ३.२७ ॥ असतो मायया जन्म तत्त्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ ३.२८ ॥ यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ ३.२९ ॥ अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३.३० ॥ मनोदृश्यमिदं द्वैतं यत्किंचित्सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३.३१ ॥ आत्मसत्यानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे (तदग्रहम् /तदग्रहात्) ॥ ३.३२ ॥ अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३.३३ ॥ निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३.३४ ॥ लीयते हि सुषुप्ते तन्निगृहीतं न लीयते । तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३.३५ ॥ अजमनिद्रमस्वप्नमनामकमरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथंचन ॥ ३.३६ ॥ सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः । सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३.३७ ॥ ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३.३८ ॥ अस्पर्शयोगो (वै नाम /नामैष) दुर्दर्शः सर्वयोगिभिः । योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३.३९ ॥ मनसो निग्रहायत्तमभयं सर्वयोगिणाम् । दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ३.४० ॥ उत्सेक उदधेर्यद्वत् कुशाग्रेणैकबिन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ ३.४१ ॥ उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ३.४२ ॥ दुःखं सर्वमनुस्मृत्य (काम[ष्]काय)भोगान्निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ३.४३ ॥ लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं (विजानीयात्सम /विजानीयाच्छम)प्राप्तं न चालयेत् ॥ ३.४४ ॥ नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरत्चित्तमेकीकुर्यात्प्रयत्नतः ॥ ३.४५ ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ३.४६ ॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् । अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ३.४७ ॥ न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ३.४८ ॥ [चोलिति (गौडपादीयकारिकायामद्वैताख्यं /गौडपादीये आगमशास्त्रेऽद्वैताख्यं) तृतीयं (प्रकरणम् ॥ ओं तत्सत् ॥ /प्रकरणं समाप्तम्) चोल्]
Use the ← → keys to move between chapters.