Chapter 8 of 10
जाबालदर्शनोपनिषत् · 8 · 1
अथातः संप्रवक्श्यामि धारणाः पञ्च सुव्रत । देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् ॥ १॥ प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे । तोयं तोयांशके भूमिं भूमिभागे महामुने ॥ २॥ हयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् । धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ॥ ३॥ जान्वन्तं पृथिवी ह्यंशो ह्यपां पाय्वन्तमुच्यते । हृदयांशस्तथाग्नंशो भ्रूमध्यान्तोऽनिलांशकः ॥ ४॥ आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः । ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ॥ ५॥ अग्न्यंशे चे महेशानमीश्वरं चानिलांशके । आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥ ६॥ अथवा तव वक्श्यामि धारणां मुनिपुङ्गव । पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥ ७॥ धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये । ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ॥ ८॥ सर्वकारणमव्यक्तमनिरूप्यमचेतनम् । साक्शादात्मनि संपूर्णे धारयेत्प्रणवेन तु । इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ॥ ९॥ इति॥ इत्यष्टमः खण्डः ॥ ८॥
Use the ← → keys to move between chapters.